कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1004, कुल 1079 में से
संदर्भ में पढ़ें१५ कथासरित्सागर राजापि बोधिसत्त्वं स दर्शितं कुस्त्रिया तया। आनाययत् साभरणं भृत्यैर्बद्ध्वा गुहातस्तत् ॥११६॥ परिपृच्छ्य च वृत्तान्तं सत्यं मत्वापि तद्वचः। स्थापयामास बद्धं तं गृहीत्वाभरणान्यपि ॥११७॥ स बन्धस्थोऽत्र सस्मार बोधिसत्त्वो भुजङ्गमम्। ऋषिपुत्रावतारं समुपतस्थे च सोऽपि तम् ॥११८॥ दृष्ट्वा च तं स पृष्टाथ सर्पं साधुमभाषत। गत्वाऽङ्गे वेष्टयाम्येतमामूर्धान्तं महीपतिम् ॥११९॥ न च मुञ्चाम्यमुं यावदागत्योक्तोऽस्मि न त्वया। मोक्ष्याम्यहं नृपं सर्पादिति त्वं च वदेरिह ॥१२०॥ त्वय्यागते त्वद्वचसा मोक्ष्याम्यहमतो नृपम्। संमुक्तश्चैष राजा ते स्वराज्यर्धं प्रदास्यति ॥१२१॥ इत्युक्त्वा तं स गत्वैव परिवेष्टितवानहिः। राजानमास्त चैतस्य मूर्ध्नि कृत्वा फणत्रयम् ॥१२२॥ हा हा दष्टोऽहिना राजेत्याक्रन्दति जनश्च सः। बोधिसत्त्वोऽब्रवीद्रक्षाम्यहं नृपमहरिति ॥१२३॥ श्रुतवद्भिश्च तद्राज्ञे विज्ञप्तं सोऽनुजीविभिः। आनाय्य बोधिसत्त्वं तं सर्पाक्रान्तोऽब्रवीन्नृपः ॥१२४॥ यदि मां मोचयस्यस्मात् सर्पात् तस्मै वदाम्यहम्। राज्यार्धमन्तरस्थाश्च तत्रत मन्त्रिणोऽत्र मे ॥१२५॥ तं दृष्ट्वा बाढमित्युक्ते मन्त्रिभिः स जगाद तम्। भुजङ्ग याहिमत्स्यागा मुञ्च राजानमाद्यिति ॥१२६॥ ततस्तेनाहिना मुक्तो राज्यार्धं नृपतिर्ददौ। स तस्मै बोधिसत्त्वाय सोऽपि स्वस्थोऽभवत् क्षणात् ॥१२७॥ संपदश्च क्षणेनाप मन् भूत्वा मुनिकुमारकः। सन्मन्त्र्याख्यातवृत्तान्तो जगाम निजमाश्रमम् ॥१२८॥ एवं निश्चितमभ्येति शुभमेव शुभात्मनाम्। एष पाशिक्रमो नाम वक्तव्यो महतामपि ॥१२९॥ अविज्ञाताशयं चैव स्त्रीणां शृण्वन्ति नाशताम्। प्राप्तान्तान्तर्गताञ्छीघ्रं किं नामाभवदुच्यते ॥१३०॥