भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 1006, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 1006

९५ कथासरित्सागर

राजापि बोधिसत्त्वं तं दर्शितं कुस्त्रिया तया । आनावयत् साभरणं भृत्यैर्बन्धेवा गृहातस्त ॥११६॥ परिपृच्छंश्च च वृत्तान्तं सत्यं मत्वापि तद्वचः । स्थापयामास बद्धं तं गृहीत्वाभरणान्यपि ॥११७॥ स बन्धस्थोऽथ सस्मार बोधिसत्त्वो भुजङ्गमम् । ऋषिपुत्रावतारं तमृपतस्थे च सोऽपि तम् ॥११८॥ दृष्ट्वा च तं स पृष्टार्थः सर्पः साधुमभाषत । गत्वाऽहं वेष्टयाम्येतमामूर्धान्तं महीपतिम् ॥११९॥ न च मुञ्चाम्यमुं यावदागत्योक्तोऽस्मि न त्वया । मोक्ष्याम्यहं नृपं सर्पादिति स्वं च वदेरिह ॥१२०॥ त्वय्यागते त्वद्वचसा मोक्ष्याम्यहमतो नृपम् । मन्मुक्तश्चथ राजा ते स्वराज्यर्धं प्रदास्यति ॥१२१॥ इत्युक्त्वा तं स गत्वैव परिवेष्टितवानहिः । राजानमास्त चैतस्य मूर्ध्नि कृत्वा फणत्रयम् ॥१२२॥ हा हा दष्टोऽहिना राजेत्याक्रन्दति जनेऽथ सः । बोधिसत्त्वोऽब्रवीद्रक्षाम्यहं नृपमहैरिति ॥१२३॥ श्रुतवद्भिश्च तद्वाक्यं विज्ञप्तः सोऽनुजीविभिः । आनाय्य बोधिसत्त्वं तं सर्पाक्रान्तोऽब्रवीन्नृपः ॥१२४॥ यदि मां मोषयस्यस्मात् सर्पात् तत्ते ददाम्यहम् । राज्यार्धमन्तरस्थाश्च धवैते मन्त्रिणोऽत्र मे ॥१२५॥ तच्छ्रुत्वा बाढमित्युक्ते मन्त्रिभिः स जगाद तम् । भुजङ्ग बोधिसत्त्वांशो मुञ्च राजानमाश्र्विति ॥१२६॥ ततस्तेनाहिना मुक्तो राज्यार्धं नृपतिर्ददौ । स तस्मै बोधिसत्त्वाय सोऽपि स्वस्थोऽभवत् क्षणात् ॥१२७॥ सर्पेश्च क्षीणशापः सन् भूत्वा मुनिकुमारकः । सदस्याख्यातवृत्तान्तो जगाम निजमाश्रमम् ॥१२८॥ एष निश्चितमन्वेति शुभमेव शुभार्समम् । एव नातिक्रमो नाम क्लेशाय महतामपि ॥१२९॥ अविश्वासास्पदं चैव स्त्रीणां स्पृशति नाश्चर्यम् । प्राणदानोपकारोऽपि किं चासामन्यदुच्यते ॥१३०॥