कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1034, कुल 1079 में से
संदर्भ में पढ़ें१७४ कथासरित्सागर आढ्यस्य किं च दानेन सुहितस्याशनेन किम् । किं चन्दनेन शीतातौ किं घनेन हिमागम ॥३५॥ तदेतानुद्धरत न कृपणानामयापदः । इत्युक्ता व्याधितैस्तैस्ता नृपभार्यादयोऽब्रुवन् ॥३६॥ सुष्ठूपपन्नं जल्पन्ति कृपणा व्याधिता इमे । सर्वस्वेनाप्यतोऽस्माभिः कार्यमेषां चिकित्सितम् ॥३७॥ एवमन्योन्यमारूप्य श्वश्रीमभ्यर्च्य योषितः । व्याधितांस्तान्स्वभवनान्यानिन्युस्ताः पृथक्पृथक् ॥३८॥ स्वभर्तॄन् प्रेर्य तेषां च महासत्त्वान् महौषधैः । चिकित्सां कारयामासुर्नोसिसृक्षुश्च तदन्तिकात् ॥३९॥ सहवासाच्च तैरेव सङ्गमूवुर्मतन्मये । तथा ययुस्ताः ससारं तमद्य ददृशुर्येषा ॥४०॥ क्व रोगिणोऽमी कृपणा भर्तारः क्व नृपादयः । इति न व्यमृशंस्तासां मन्मथान्धीकृतं मनः ॥४१॥ ततश्च ता असम्भाव्यरोगिसम्भोगसम्भवेः । नखदन्तक्षतैर्युक्ताः पतयो ददृशुर्निजाः ॥४२॥ तं च भूपालस्तन्मन्त्रिसेनापतिमुखास्तयः । सवाद्यम्यु ससन्देहाः परस्परमतन्त्रिताः ॥४३॥ ततो राजाऽब्रवीदन्यान्यूमं सम्प्रति तिष्ठत । अहमद्य निजां भार्या तावत्पृच्छामि युक्तितः ॥४४॥ इत्युक्त्वा तान्विसृज्यैव गत्वा वासगृहं च सः । प्रवशितस्नेहमयो भार्या पप्रच्छ तां नृपः ॥४५॥ दष्टं केनाधरोष्ठं तं क्षतो केन मखं स्तनौ । सत्यमाख्यासि चेदस्ति श्रेयस्ते नान्यथा पुनः ॥४६॥ इत्युक्त्वा तेन राज्ञा सा राज्ञी कृतक्रमप्रवीत् । अवाच्यमप्यथ याह्र वक्ष्याश्चर्यमिदं शृणु ॥४७॥ चित्रभित्तरितो रात्रौ पुमांश्छन्नगदाधरः । निर्गत्यैवोपाभुङ्क्ते मां प्रातश्चात्रव लीयते ॥४८॥ यदङ्गं चन्द्रसूर्याभ्यामपि दृष्टं न जातु मे । तत्रेदृगेत्य क्रियते तेनावस्था स्थिते त्वयि ॥४९॥