कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 1062, कुल 1079 में से
संदर्भ में पढ़ें१० कथासरित्सागर ततो जयेन्द्रसेनाख्यां तां स दध्यौ यथा तथा। आसतां निशि नार्त्तोऽन्या न निद्रापि जहार तम् ॥२३॥ अन्येद्युः पोतकानीतमपि वातसमं जवे। तदश्वरत्नयुगलं बाहुर्विदारुह्यत्यवित् ॥२४॥ स्वयं रुधिरखेवो यां तामारुह्य करेणुकाम्। सवेगेन जगामाथ जवायानललेन सः ॥२५॥ ततो रुधिरखवेन वाजिरत्नयुगे जिते। यावत्स वत्सराजसुतो विदारभ्यन्तरं ततः ॥२६॥ तावत्तस्य पितुः पार्श्वद्भूतोऽन्तिकमुपाययौ। स दृष्ट्वा पादयोर्दूस्तस्तं प्रणम्याब्रवीदिदम् ॥२७॥ इह प्रयातं बुद्ध्वा त्वां परिवारात् पिता तव। राजा मां प्राहिणोत् त्वां प्रत्यवमादिशति स्म च ॥२८॥ इयद्दूरमनावद्य यातोऽस्युद्यानतः कथम्। अद्यैतिर्नस्तवायाहि मुक्तव्यासङ्गलत्वरम् ॥२९॥ इति शृण्वन्पितुर्दूतात् प्रियाप्राप्तिं च चिन्तयन्। नरवाहनदत्तोऽभूत् स दोलाऽऽरूढमानसः ॥३०॥ तावत् क्षमाप्य तत्रस्थः सार्थवाहोऽतिहर्षरूः। दूरादेव नमन्नेत्य युवराजमुवाच तम् ॥३१॥ जय वीर जयापुष्पकोदण्डकुसुमायुध। भाविविद्याधराधीश चक्रवर्त्तिञ्जय प्रभो ॥३२॥ बालो न किं मनोहारी वर्धमानो न किं द्विषाम्। वित्रासकारी दृष्टोऽसि देव तस्मादसशयम् ॥३३॥ अचिरादच्युतगुण त्वां द्रक्ष्यन्त्येव खेचराः। आक्रमन्तं क्रमेण द्यां कुर्वन्तं बलिनिर्जयम् ॥३४॥ इत्यावि स्तुतवांस्तेन युवराजेन सत्कृतः। पृष्टश्चाकथयत् तस्मै स्ववृत्तान्तं महावणिक् ॥३५॥ दाक्षिणो वेलायाश्च कथा अस्ति कम्पति नगरी पृथिवीमौक्तिकामलिका। तस्यां कुसुमसारारूप्यो वणिगाढ्यो महानभूत् ॥३६॥