कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 125, कुल 1079 में से
संदर्भ में पढ़ें१०२ कथासरित्सागर इत्युक्त्या स विशस्य तं वैद्यं सूदान्नृपोऽब्रवीत्। किं तस्य शृङ्गालस्यास्ति मांसशेषोऽत्र कश्चन ॥१५॥ शृङ्गे परे स्त इत्युक्ते सूदैर्वेद्योऽथ सोऽब्रवीत्। साधु तद्घृतं हि स्यात्प्रसूतौ शृङ्गगर्भजम् ॥१६॥ इत्युक्त्वा कारयित्वैव तत्ततः शृङ्गमांसतः। तस्यै गुणवरायै स चूर्णमिश्रं भिषग्ददौ ॥१७॥ ततस्तस्याश्च नवतिर्देभ्यो राज्ञो नवाधिका। आसन्गर्भाः काले च सर्वाः सुषुविरे सुतान् ॥१८॥ अर्वागुपात्तगर्भा च सा सर्वोत्तमलक्षणम्। प्रासूत स्म महादेवी पश्चाद् गुणवरा सुतम् ॥१९॥ शृङ्गमांसरसोत्पन्नं नाम्ना शृङ्गभुजं च तम्। पिता वीरभुजश्चक्रे राजा कृतमहोत्सवः ॥२०॥ वर्धमानः सहान्यैस्तैर्भ्रातृभिर्वयसा परम्। कनिष्ठः सोऽभवत्तेषां गुणैर्ज्येष्ठतमस्त्वभूत् ॥२१॥ क्रमात्स राजपुत्रश्च रूपे कामसमो बभौ। धनुर्वेदेऽर्जुनसमो भीमसेनसमो बले ॥२२॥ तच्च सपुत्रां सुतरां दृष्ट्वा वीरभुजस्य ताम्। प्रियां गुणवरां राज्ञो देव्योऽन्या मत्सरं ययुः ॥२३॥ अथ तास्वयशोलेखा नाम राज्ञी दुराशया। सम्मन्त्र्य ताभिरन्याभिः सह कृत्वा च संविदम् ॥२४॥ समस्ताभिः सपत्नीभिस्तं राजानं गृहागतम्। मुषाधृतमुखग्लानिं पृच्छन्तं कृच्छ्रतोऽब्रवीत् ॥२५॥ आर्यपुत्र कथं नाम सहसे गृहदूषणम्। परस्य रक्षिताद्य न रक्षस्यात्मनः कथम् ॥२६॥ यः सुरक्षितनाभायमन्तःपुरपतिर्युवा। तत्सक्ता हि त्वदीयेषा राज्ञी गुणवरा किल ॥२७॥ तदन्यस्य न कामोऽस्ति सौविदल्ल१निरीक्षिते। अन्तःपुरेऽत्र पुंसो यद्दत्तासौ तेन सङ्गता ॥२८॥ १ सौविदल्लः कञ्चुकी। तल्लक्षणं यथा — अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः। सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते॥