भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 13, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 13

१ कथासरित्सागर प्रथमस्तरङ्गः मङ्गलाचरणम् केलिकेशग्रहव्यग्रगौरीकरनखामृतम् । शिवायानेकबक्त्राम्रेडनमिव शार्वं शिरोऽस्तु वः ॥१॥१ करं दानाम्भसार्द्रं यं कुञ्चिताग्रं प्रसारयन्। ददत् सिद्धिमिवाभाति स पायाद्वो गजाननः ॥२॥ रत्नप्रभायाः कथा एवं स तत्र कौशाम्ब्यां पुत्रो वत्सेश्वरस्य ताम्। परिणीय युवा प्राणसमां मदनमञ्चुकाम् ॥३॥ नरवाहनदत्तः स्वे सचिवैर्गोमुखादिभिः। सार्धं तस्यौ यथाकामं परिपूर्णमनोरथः ॥४॥ एकदा चोल्लसद्गन्धकोकिलालापराजिते। प्रवर्त्तितकथाप्रास्यवसन्तमध्यमाह्वते ॥५॥ प्रगीतमधुरोन्मगे सम्प्राप्ते च मधूत्सवे। ययौ विहर्तुमुद्यानं राजपुत्रः समन्वितः ॥६॥ तत्र भ्रातृवशादाकस्मादुपत्य निजगाद तम्। प्रहर्षोत्फुल्लनयनः स्ववयस्यस्तपन्तकः ॥७॥ युवराज मया दृष्टा क्वापीतो नातिदूरतः। कन्यावतीर्य गगनात् स्थिताशोकतरोरधः ॥८॥ तयैव प्रेषितश्चाहमुपेत्य ससखीकया। स्वकान्तिद्योतितदिशा त्वाह्वानाय कन्यया ॥९॥ तच्छ्रुत्वा स स्वसचिवैः साकं तद्दर्शनात्सुकः। नरवाहनदत्तस्तत्समीपमगाद्द्रुतम् ॥१०॥ ददर्श तत्र तां कान्तां लोललोचनषट्पदाम्। शोणोष्ठपल्लवां पीनस्तनस्तबकशोभिताम् ॥११॥ परागपुञ्जगौराङ्गीं छायया सापहारिणीम्। मालोचिताकृतिं साक्षादिवोपवनदेवताम् ॥१२॥ १ अत्र मङ्गलाचरणे शिवाशिरसः सम्भोगशृङ्गारवर्णनमस्ति। पार्वती स्वाधीन- भर्त्तृका वर्त्तते। अलङ्कारश्चात्रोत्प्रेक्षा। २ अत्रोत्प्रेक्षालङ्कारः।