कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 135, कुल 1079 में से
संदर्भ में पढ़ें११२ कथासरित्सागर येन तातोऽप्यसौ विद्धो बकरूपो महेषुणा। स च हेममयो बाण स्वीकृतः क्रीडया मया॥८९॥ क्षतस्तु निर्व्रणः सद्यो महादंष्ट्रेण मन्त्रिणा। विशल्यकरणीमुख्यमहौषधिविदा कृतः॥९०॥ तथापि तातं सम्बोध्य नयाम्यभ्यन्तरं द्रुतम्। त्वामार्यपुत्र न्यस्तो हि त्वय्यात्मायं मयाधुना॥९१॥ इत्युक्त्वा समवस्थाप्य तत्र शृङ्गभुजं क्षणम्। ययौ रूपशिखा पार्श्वं पितुरग्निशिखस्य सा॥९२॥ तात शृङ्गभुजो नाम राजसूनुरिहागतः। कोऽप्यनन्यसमो रूपकुलशीलबयोगुणैः॥९३॥ जाने कोऽप्यवतीर्णोऽत्र देवांशो न स मानुषः। स चेद्भर्त्ता न मे स्यात् तत्यजेयं जीवितं ध्रुवम्॥९४॥ इत्युक्तः स तया तत्र पिता सां राक्षसोऽब्रवीत्। मानुषाः पुत्रि भक्ष्या मस्तथापि यदि ते ग्रहः॥९५॥ तदस्तु राजपुत्रं तमिहैवानाय्य दर्शय। तच्छ्रुत्वा सा ययौ रूपशिखा शृङ्गभुजान्तिकम्॥९६॥ तत्सर्वं यथावृत्तं सञ्च तं निनायान्तिकं पितुः। सोऽपि तं नम्रमादृत्य तत्पिताग्निशिखोऽब्रवीत्॥९७॥ ददामि राजपुत्रैतां तुभ्यं रूपशिखामहम्। यदि मद्वचनं किञ्चिन्नातिक्रामसि जातुचित्॥९८॥ इत्युक्तवन्तं तं सोऽपि प्रह्वः शृङ्गभुजोऽब्रवीत्। बाढमुल्लङ्घयिष्यामि नैवाज्ञावचनं तव॥९९॥ इति शृङ्गभुजोक्त्यास्तुष्टः सोऽग्निशिखोऽभ्यधात्। उत्तिष्ठ तर्हि स्नात्वा त्वमागच्छ स्नानवेश्मनः॥१००॥ तमेवमुक्त्वावादीत्सा सुतां रूपशिखां च सः। त्वं गच्छ सर्वा भगिनीरादायागच्छ सत्वरम्॥१०१॥ एवमग्निशिखेनोक्तौ तेन निर्जग्मतुस्ततः। तयैव साकमुत्तस्थौ शृङ्गभुजो रूपशिखा च सा॥१०२॥ ततश्च सा सुधीः शृङ्गभुजं रूपशिखाभ्यधात्। आर्यपुत्र कुमारीणां स्वसॄणामस्ति मे शतम्॥१०३॥