कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 165, कुल 1079 में से
संदर्भ में पढ़ें१४२ कथासरित्सागर तयैव पुरुषं तं च तरुणं तत्र भूगृहे। प्रवेश्य स्थापयामास सुरङ्गां पिदधे च ताम् ॥६२॥ सम्प्राप्य मूढबुद्धीनामवकाशं निरर्गलम्। उच्छृङ्खलमतिः कुर्यात् प्राकृतः किं न साहसम् ॥६३॥ ततः स सर्वाः प्रकृतीर्वैद्योऽन्येद्युरभाषत। अजरोऽयं कृतस्तावत् पक्वनिर्मासिमया नृपः ॥६४॥ मासद्वयेन चैतस्य रूपमन्यद् भविष्यति। तद् दूरात् किञ्चिदात्मानमस्मै दर्शयताधुना ॥६५॥ इत्युक्त्वा भूगृहद्वारि सर्वानानीय दर्शयन्। तस्मै न्यवेदयद् भूपे स तेषां नामकर्मणी ॥६६॥ इत्यन्तःपुरपर्यन्तं मासद्वितयमन्वहम्। भूगृहेऽथो मधूक्त्या युवानं पुष्य स तम् ॥६७॥ प्राप्ते च समये तं स भोगपुष्टं धरागुहात्। उज्जहाराजरः सोऽयं जातो राजेत्युदाहरन् ॥६८॥ ततश्चौषधिसंसिद्धः सैष राजेति तत्र सः। पर्यष्वज्यत हृष्टाभिः पुमान् प्रकृतिभिर्युवा ॥६९॥ अथ स्नातस्तथा लब्धराज्यो राजोचिताः क्रियाः। चकार स सहामात्यैः सोत्सवास्तरुणं पुमान् ॥७०॥ ततःप्रभृति तस्मै च कुर्वन् राज्यं सुखेन सः। नामाजर इति प्राप्य क्रीडन्नन्तःपुरे सह ॥७१॥ सर्वे चैतमसम्भाव्यवेषवृत्ताविशङ्किनः। रसायनपरावृत्तरूपं स्वं मेनिरे प्रभुम् ॥७२॥ प्रीत्यानुरञ्जयन् प्रकृतीर्देवीं च कमलप्रभाम्। सोऽय स्वमित्रैरजरो राजामुञ्चत सह श्रियम् ॥७३॥ मित्रं भेषजचन्द्राख्यं तथान्यं पद्मदर्शनम्। उभे भारसमै चक्रे हस्त्यश्वग्रामपूरितै ॥७४॥ वैद्यं तरुणचन्द्रं तु प्रक्रियाधममानयत्। न तु तस्मिन् विदधद्वासं सत्यधर्मच्युतात्मनि ॥७५॥ एकदा च स वैद्यस्तं स्वैरं राजानमब्रवीत्। किं मामगणयित्वैव स्वात्मन्येव विचेष्टसे ॥७६॥