कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 175, कुल 1079 में से
संदर्भ में पढ़ेंकिमेवमिति कस्मिंश्चित्पृच्छत्यागत्य चेटिका। अब्रुवन् कञ्चुकी क्रन्दत्येष धर्मगिरि प्रभो॥३॥ इहागत्य हि मूर्खेण मित्रेण कथितोऽधुना। तीर्थयात्रागतोऽमुष्य भ्राता देशान्तरे मृतः ॥४॥ तेन राजकुलस्थोऽस्मीत्यस्मरञ्छोकमोहितः । साक्रन्दं सन्नगृह नीत सम्प्रत्यथ बहिर्जनैः ॥५॥ तच्छ्रुत्वा युवराजेऽस्मिञ्जातवेपु सानुकम्पया। राज्ञी रत्नप्रभा तत्र विषण्णेव जगाद सा॥६॥ प्रियबन्धुवियोगोत्थमहो दुःखं दुरुत्सहम्। कष्टं किं न कृतो धात्रा जनोऽयमजरामरः ॥७॥ इति राज्ञीवचः श्रुत्वा मरुभूतिरुवाच ताम्। मर्त्येष्वेतत्कुतो देवि तथाहीमां कथां शृणु ॥८॥
नागार्जुनकथा
चिरायुर्नाम्नि नगरे चिरायुर्नाम भूपतिः। पूर्वे चिरपुरेवासीन्निकेतनं सर्वसम्पदाम् ॥९॥ तस्य नागार्जुनो नाम बोधिसत्त्वांशसम्भवः। वयारुर्वानशीलपश्च मन्त्री विज्ञानवानभूत् ॥१०॥ यः सर्वौषधियुक्तिज्ञश्चक्रे सिद्धरसायनः। आत्मानं तं च राजानं विजरं चिरजीवितम् ॥११॥ कदाचिन्मन्त्रिणस्तस्य बालः पञ्चत्वमाययौ। नागार्जुनस्य पुत्रेषु सर्वेषु दयितः सुतः ॥१२॥ स तेन दृष्टसन्तापो मर्त्यानां मृत्युशान्तये। अमृतं सन्दधे द्रव्यैस्तपोदानप्रभावतः ॥१३॥ द्रोपौषधस्य त्वेकस्य कालयोगं स मन्वते। यावत्प्रतीक्षते तावदिन्द्रेण तदबुध्यत ॥१४॥ इन्द्रः समामन्त्र्य सुरैरश्विनावैवमादिशत्। गत्वा नागार्जुनं ब्रूतमिदं मद्वचनाद् भुवि ॥१५॥ कोऽयं कर्तुमिहारब्धो मन्त्रिणाप्यनमस्त्वया। किं स्वं प्रजापतिं जेतुमुद्यतो बत साम्प्रतम् ॥१६॥