भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 251, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 251

२३२ कथासरित्सागर

माता वासवदत्ता पद्मावत्या समं तमाश्लिष्य। विगलितमिव तद्दर्शनदुःखग्रन्थिं जहौ बाष्पम्॥२४५॥ रत्नप्रभा च भार्या सानन्दा मदनमञ्जुका च तया। तस्य प्रेमहतेर्यै धरणी हृदयं च जगृहतुस्तुल्यम्॥२४६॥ यौगन्धरायणादीन् पितृसखियान् स्वांश्च सोऽथ नृपसूनुः। मरुभूतिमुख्यान् प्रगताननन्दयत् कृतयथार्हसत्कारः॥२४७॥ सर्वे च ते विभूषितसुदशार्हकुलेन जलधिमाक्रम्य। समुपाभृतां स्वपतिना व्यक्तं सोदर्यसूर्त्तिममृतस्य॥२४८॥ अजराजनाशतयुतामायातीं श्रियमिवाभ्यनन्दंस्ताम्। कर्पूरिकां नववधू वत्सेशाद्या यथोचितावनताम्॥२४९॥ तस्याश्च पैतृकं तं वत्सेश्वरोऽपूजयत् प्रतीहारम्। अर्पितविमानवाहितकाञ्चनकर्पूरवस्त्रकोटिद्वयम् ॥२५०॥ आख्यातं नरवाहनदत्तेन ततो विमानकर्त्तारम्। उपकारिणं स राजा प्राणधरं तमपि मानयामास॥२५१॥ कथमेषा राजसुता सम्प्राप्ता कथमितश्च यातौ स्वः। इति पप्रच्छ सहर्ष संम्नाय स गोमुखं नृपतिः॥२५२॥ अथ मृगयावनगमनात् प्रभृति यथा दर्शनं तपस्विन्याः। राज्यधरसमासादितविमानयुक्त्या यथा च तीर्णोऽब्धिः॥२५३॥ कर्पूरिका विवाहे विमुखापि च सम्मुखी यथा विहिता। प्राणधरसामलब्धेनागमनं भ्राम्यया विमानेन॥२५४॥ युक्त्यैकान्ते स तथा तदशेषं गोमुखो यथावृत्तम्। कथयाञ्चकार तस्मै सदारसचिवाय वत्सराजाय॥२५५॥ क्वासौट क्व च तापसी क्व च तमोदन्वत्तटे यन्त्रवि- च्छक्षा राज्यधरस्मदीयवहननोल्लङ्घनं क्वाम्बुधेः। तत्पारे च विमानकर्तुरपरस्यास्य क्व पूर्वं गति- र्भव्यानां शुभसिद्धयुपायरचनाचिन्तां विधत्ते विधिः॥२५६॥ इति तैरखिलैः सविस्मयप्रमदाकम्पितमस्तकैस्ततः। जगदे विन्ष्टे च गोमुख प्रभुभक्तिस्तुतिरत्न सादरेः॥२५७॥ रत्नप्रभा च राज्ञीं पतिव्रताधर्मजनितपरितोषाम्। प्रशशंसुस्ते भर्तुर्निजविद्याविहितपररक्षाम्॥२५८॥