भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 253, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 253

२२४ कथासरित्सागर अथ नरवाहनदत्तो विनीतगगनाङ्गनागमनखदः । स विवेश राजधानीं पितृभिर्भार्यादिभिश्च समम् ॥२५९॥ तत्रोपागतमानितबन्धुसुहृत्स्वर्णकूटभूतकोषः । वसुभिस्तौ पूरितवान् प्राणधरश्वाशुरप्रतीहारौ ॥२६०॥ मुक्तोत्तरं च सपदि प्राणधरस्तं व्यजिज्ञपत् प्रणतः । देवावयोश्चिरेणं कर्पूरकभूभृता समादिष्टम् ॥२६१॥ आगन्तव्यं त्वरितं मद्दुहितरि भर्त्तृभवनमाप्तायाम् । येनाहं जानीयां सम्प्राप्तामत्र शीघ्रमिति ॥२६२॥ तद्गन्तव्यं निश्चितमावाभ्यां देव चतुरमधुनेव । दापय कर्पूरिकया राज्ञो लेखं स्वहस्तलिखितं नो ॥२६३॥ नहि तस्य सुतास्निग्धं हृदय राज्ञोऽन्यथा समाश्वसिति । स ह्यारूढविमानो न जातुचिच्छङ्कते प्रपातमतः ॥२६४॥ तल्लेखदानपूर्व्वं सम्प्रति सहितं मया प्रधानमिमम् । अनुजानीहि विमानप्रस्थानप्रोन्मुखं प्रतीहारम् ॥२६५॥ अहमादाय कुटुम्बकमेष्यामि पुनस्त्विहैव युवराज । शक्ष्यामि नामृतमयं चरणाम्भोजद्वयं तव त्यक्तुम् ॥२६६॥ इति तेन सुदृढमुक्ते प्राणधरेणैव वत्सराजसुतः । लेखस्य लेखने तां प्रयुङ्क्त कर्पूरिकां तदैव वधूम् ॥२६७॥ तात न चिन्ता मयि ते कार्या सर्वभर्तृसौख्यसवनभुवि । किं हि महाब्धेः कम्र्ला चिन्तास्पदमाधितोत्तप्तं पुश्खम् ॥२६८॥ इति च स्वहस्तलिखिते कर्पूरिकया तयार्पिते लेखे । कञ्चुकिप्राणधरौ तौ वत्सेशसुतार्धितौ स विससर्ज ॥२६९॥ तौ चारुह्य विमानं गगनगतौ जातविस्मयैः सर्वैः । दृष्टौ तीर्त्वा जलधिं ययतुः कर्पूरसम्भवं नगरम् ॥२७० ॥ तत्र सुतां पतिसदनप्राप्तां सम्भाव्य दत्तलेखौ तौ । आनन्दयाम्बभूवतुरथ तं कर्पूरकं नराधिपतिम् ॥२७१॥ अन्येद्युरनुज्ञाप्य प्राणधरस्तं नृपं स सकुटुम्बः । सम्भावितराज्यधरो नरवाहनदत्तपार्श्वमेवागात् ॥२७२॥ सोऽत्रागताय सद्यः कृतकार्य्यायारभमन्दिरसमीपे । नरवाहनदत्तोऽस्मै प्रददौ वसतिं च जीवनं च महत् ॥२७३॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 253, कुल 1079 में से · BharatKosha