कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 257, कुल 1079 में से
संदर्भ में पढ़ेंसूर्यप्रभो नामाष्टमो लम्बक अव गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना- त्पुरा किल कथामृतं हरमुखाम्बुधेरुद्गतम्। प्रसङ्ग रचयन्ति ये विगतविघ्नलब्धर्द्धयो धुरं दधति वैबुधीं भुवि भवप्रसादेन ते॥ प्रथमस्तरङ्ग मङ्गलाचरणम् चलत्कर्णानिलोद्भूतसिन्दूरारुणिताम्बरः । जयत्यकालेऽपि सृजन् सन्ध्यामिव गजाननः॥१॥ नरवाहनदत्तकथा (पूर्वानुवृत्ता) एवं वत्सेश्वरसुतः कौशाम्ब्यां स पितुर्गृहे। नरवाहनदत्तस्ता भार्या प्राप्यावत्सत्सुखम् ॥२॥ एकदा पितुरास्थाने स्थितस्य पुण्ये दिने । अवतीर्यागतं तत्र दिव्यरूपं ददर्श सः ॥३॥ प्रणतं तं च सत्कृत्य पित्रा साकं क्षणान्तर। कस्त्वं किमागतोऽसीति पृष्टवान्सोऽप्यथाब्रवीत् ॥४॥ वज्रप्रभार्पिता आत्मकथा अस्तीह वज्रकूटाख्यं पृष्ठे हिमवतः पुरम्। वज्रसारमयप्राकारख्यातमन्वर्थनामकम् ॥५॥