कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 259, कुल 1079 में से
संदर्भ में पढ़ें२१० कथासरित्सागर तत्र वज्रप्रभाख्योऽहमास विद्याधराधिपः। वज्रनिर्मितदेहत्वात्नामान्वर्थं तदेव मे ॥६॥ 'मन्निमित्ते यथाकालं भक्तः सद्यश्चक्रवर्त्तिनि । अजेयस्त्वं विपक्षाणां मत्प्रसादाद् भविष्यसि' ॥७॥ इति चाह तपस्तुष्टेनादिष्टः शम्भुना यदा। तदा प्रभो प्रणामार्थमागतोऽस्मीह साम्प्रतम् ॥८॥ वत्सराजसुतो दिव्य कल्प कामोद्यसम्भवः। नरवाहनदत्तो नः शशिशेखरनिर्मितः ॥९॥ मर्त्योऽप्युभयवेद्यर्धचक्रवर्त्ती भविष्यति । इति विद्याप्रभावेन विज्ञातं शृणुमो मया ॥१०॥ आसीच्च दिव्य कल्प न पुरा मर्त्योऽप्यनुग्रहात्। सावत्त्सूर्यप्रभो नाम चक्रवर्तीह यद्यपि ॥११॥ तथाप्यभूत् स एकस्मिन्वेद्यर्धे दक्षिणे प्रभुः। उत्तरे श्रुतशर्माख्यश्चक्रवर्ती त्वभूत्तदा ॥१२॥ उभयोस्तु तयोरेक कल्पस्थायी शुभाशिषाम्। चक्रवर्त्यत्र भविता देव एवातिपुण्यवान् ॥१३॥ इत्युक्तवन्तं मन्त्येधसहितस्तं कुतूहलात्। नरवाहनदत्तः स प्राह विद्याधरं पुनः ॥१४॥ कथं विद्याधरैश्वर्यं मानुषेण सता पुरा। प्राप्तं सूर्यप्रभेणेति त्वया मः कथ्यतामिति ॥१५॥ ततो विविक्ते देबीनां मन्त्रिणां सन्निधौ च सः। राजा वज्रप्रभो वक्तुं कथां तामुपाचक्रमे ॥१६॥ सूर्यप्रभचरितम् शाकलः नाम मद्रेषु बभूव नगरं पुरा। चन्द्रप्रभाख्यस्तत्रासीद्राजाङ्गारप्रभात्मजः ॥१७॥ १ उत्तरमुख-दक्षिणमुखौ देवस्थानत्वेन वर्ण्येते दक्षिणमुखदेवस्थानं पितृयान-मार्गत्वेन, उत्तरमुखदेवस्थानं च देवयानमार्गत्वेन कथ्यते। अत्र द्वयोरपि स्थानयोर्विद्याधराणां राज्यमासीत्। २ साम्प्रतं 'स्यालकोट' इति प्रसिद्धं नगरं पाकिस्ताने सम्मिलितम्।