भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 327, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 327

२१६ कथासरित्सागर

स्थितः सूर्यप्रभो नाम रूपेण जितमन्मथः । तस्मै गत्वा स्वयं गुप्तमात्मा दत्तः किलैतया ॥२८३॥ गतायामथ चेट्यां तत्सकाशं निशागमे । प्रह्लाददुहिताऽयागात् स्वयं तत्र महल्लिका ॥२८४॥ तया सहेर्ष्याकलहं कृत्वा सत्यारम्भात्तनो । उद्यतैषा सुखावत्या स्वस्रा दृष्ट्वैव रक्षिता ॥२८५॥ ततश्चान्तः प्रविश्यैव निपत्य शयनीयके । स्थिता तया सह स्वस्रा पृष्टवृत्तान्तविग्नया ॥२८६॥ एवं चेट्योः कथां श्रुत्वा प्रविश्यात्र तथैव तौ । कलावतीसुखावत्यौ दृष्टे सुप्त्याकृती मया ॥२८७॥ इति प्रभासो यावत्तं वक्ति सूर्यप्रभं रहः । तावत्प्रहस्तोऽप्यागात् पृष्टः सोऽप्यब्रवीदिदम् ॥२८८॥ इतो महल्लिकावासगृहं यावदहं गतः । तावत्तत्र प्रविष्टा सा सखीभ्यां सह दुर्मनाः ॥२८९॥ अहं तत्रैव चादृश्यो विद्यायुक्तो प्रविष्टवान् । दृष्टा मयात्र तस्याश्च सख्यो द्वादश तत्समाः ॥२९०॥ ताश्च सञ्चलपर्यङ्कनिषण्णां परिवृत्य ताम् । महल्लिकामुपाविशन्नेका चोवाच तां ततः ॥२९१॥ सखि कस्मादकस्मात्त्वमुद्विग्नेवाद्य दृश्यसे । विवाहे प्रस्तुतेऽप्येषा बत का ते विषादिता ॥२९२॥ तच्छ्रुत्वा सविमर्शा सा तां प्रह्लादसुताब्रवीत् । को मे विवाहो दत्तास्मि कस्मै केनोदितं तव ॥२९३॥ एवं तयोक्ते सर्वास्ता जगदुर्मिथ्यैतत् त्वम् । प्रातर्विवाहो दत्तासि सखि सूर्यप्रभाय च ॥२९४॥ स्वजनन्यै च देव्यैतदद्योक्तं स्वदसन्निधौ । अस्माभियोजयन्त्या ते कौतुकप्रतिबन्धनि ॥२९५॥ तद्धन्यासि च यस्यास्त भावी सूर्यप्रभः पतिः । यद्रूपसम्पदो निन्द्राति निधिं नष्टाङ्गनाजनः ॥२९६॥ अस्मारं तु विगाताश्चे श्चन्तनी यं वयं परम् । तस्मिन् हि भर्त्तरि प्राप्ते त्वमस्मान् विस्मरिष्यसि ॥२९७॥