कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 379, कुल 1079 में से
संदर्भ में पढ़ें४८ कथासरित्सागर या च सम्बन्धिनी तस्य प्रशस्तस्यौषधीगुहा । तेन प्रभासस्यात्मीया वश्या सास्य सकिङ्करा ॥२४२॥ तदधश्चास्ति पाताले मन्दिरं प्रबलस्य तत् । यत्र द्वादश सन्त्यस्य मुख्यभार्याः स्वलङ्कृताः ॥२४३॥ विविधानि च रत्नानि नानाप्रहरणानि च । चिन्तामणिश्च लक्षं च योधानां तुरगास्तथा ॥२४४॥ तत्प्रभासस्य सम्बन्धि सर्वमस्य पुरोजितम् । सर्वोदृशं प्रभासोऽयं नास्त्येद किञ्चिदद्भुतम् ॥२४५॥ एवं ततो मुनिकुमारक्तो निशम्य सूर्यप्रभप्रभृतयः समयप्रभासाः । रत्नाद्यवाप्तुमथ संश्रयमुस्तदैव पातालमङ्गं प्रबलवेश्मबिलप्रवेष्ठम् ॥२४६॥ तेम प्रविश्य परिगृह्य च पूर्वपत्नी— श्चिन्तामणिं च तुरगानसुरांश्च योधान् । निर्गत्य प्राप्तनिखिलद्रविणः स एकः सूर्यप्रभं किमपि तोषितवान् प्रभासः ॥२४७॥ अथ समयसुनीथः सप्रभासः सुमेरु— प्रभृतिभिरनुयातो राजभिर्मन्त्रिभिश्च । द्रुतमभिमतसिद्धिं प्राप्य सूर्यप्रभोऽसौ पुनरपि निजसेनासन्निवेशं तमागात् ॥२४८॥ तत्र सोऽसुरनराधिपादिषु स्वस्ववासकगतेषु तेषु तम् । रात्रिशेषमनयत् कुशास्तरे सन्निगृह्य रणदीक्षितः पुनः ॥२४९॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके तृतीयस्तरङ्गः । चतुर्थस्तरङ्गः रणभूमौ सूर्यप्रभस्य युद्धसज्जा ततः प्रातः समं सैन्यैः स सुमेरुतपोवनात् । तस्मात्सूर्यप्रभः प्रायाच्छत्रून्विजिगीषया ॥१॥ सनिवासस्य निकटं त्रिकूटाद्रेश्चाप्य च । भावासितोऽभूत्तत्रत्यं बलेनोत्सार्य तद्बलम् ॥२॥