कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 387, कुल 1079 में से
संदर्भ में पढ़ें[Page Header] १५६ कथासरित्सागर
[Main Text] आगाच्च भगवान्ब्रह्मा सावित्र्यादिभिरन्वितः । मूर्तेर्वेदैश्च शास्त्रैश्च निखिलैश्च महर्षिभिः ॥४७॥ आजगाम च देवीभिर्लक्ष्मीकीर्तिजयादिभिः । धृतचक्रामुषो देवः पक्षिराजरथो हरिः ॥४८॥ सभार्यः कश्यपोऽप्यागादादित्या वसवोऽपि च । यक्षराक्षसनागेन्द्राः प्रह्लादाद्यास्तथासुराः ॥४९॥ तैरावृते नभोभागे शस्त्रसम्पातदारुणे¹। प्रावर्त्तत महानादः संग्रामः सेनयोस्तयोः ॥५०॥ दिक्चक्रे बाणजालेन घनेनाच्छादिते तदा । अन्योऽन्यशर सङ्घर्षजातानलतडिल्लते ॥५१॥ शस्त्रक्षतगजाश्वौघरक्तधारावपूरिता । वीरकायबृहद्ग्राहा निर्ययुः शोणितापगाः ॥५२॥ नृत्यत्सु सरसं रक्ते नभतो वोत्सवाय सः । शूराणां फेरवाणां च भूतानां चाभवद्रणः ॥५३॥ शान्ते तुमुलसंग्रामे निहतासंख्यसैनिके । लक्ष्यमाणे विभागे च शनैः स्वपरसैन्ययोः ॥५४॥ प्रतिपक्षप्रवीराणां प्रयुद्धानां सुमेरुतः । नामावौ श्रूयमाणे च क्रमात्सूर्यप्रभादिभिः ॥५५॥ पूर्वं सुबाहोर्नृपतेर्विद्याधरपतेस्तथा । अट्टहासाभिधानस्य द्वन्द्वयुद्धमभून्महत् ॥५६॥ सुचिरं युध्यमानस्य तस्य विद्धस्य सायकैः । अट्टहासोऽर्धचन्द्रेण सुबाहोरच्छिनच्छिरः ॥५७॥ दृष्ट्वा सुबाहुं निहतं मुष्टिकोऽभ्यापतत्क्रुधा । सोऽपि तेनाट्टहासेन भुवि बाणहतोऽपतत् ॥५८॥ मुष्टिके निहते भूयः प्रलम्बो नाम भूपतिः । अभिभाष्याट्टहासं तं शरवर्षैरयोधयत् ॥५९॥ अट्टहासोऽपि तत्सैन्यं हत्वा हत्वा च मर्मणि । प्रलम्बमपि तं वीरं रथपृष्ठे न्यपातयत् ॥६०॥
[Footnotes] १ शस्त्राणां संपातेन दारुणः = भीषणः।