भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 451, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 451

४१९ कथासरित्सागर तीर्थयात्रा सवष्टावा सञ्छस्ता तस्य सा बुधैः। सम्पत्तिविधिभङ्गः स्याद्वैदिके यस्य कर्मणि॥२२४॥ अन्यथा देवपित्रग्निप्रियाव्रतजपादिभिः। गृहे या पुण्यनिष्पत्तिः साध्वनि भ्रमतः कुतः॥२२५॥ भुजोपधाना भूशायी भिक्षाशी केवलोऽशनः। मुनेः समत्वं प्राप्यापि न क्लेशैर्मुच्यतेऽध्वगः॥२२६॥ देहत्यागात्सुखं यद्वा वाञ्छस्येष तव भ्रमः। इतः कष्टतरं दुःखममुत्र ह्यात्मघातिनाम्॥२२७॥ तदेषोऽनुचितो मोहो यूनश्च विदुषश्च ते। स्वयं विचारयावश्यं कर्तव्यं मद्वचस्तव॥२२८॥ कारयामीह गुप्तं ते भूगृहं पृथु सुन्दरम्। विवाह्य सुन्दरीं तत्र तिष्ठाज्ञातो यथेच्छसि॥२२९॥ इति तेनाग्निवत्तेन बोधितः स प्रयत्नतः। गुणशर्मा सभ्येत्येतत्प्रतिपद्य जगाद तम्॥२३०॥ कृतं मया ते वचनं को भार्या सुन्दरीं त्यजेत्। किं त्वेतामकृती नाहं परिणेष्यामि ते सुताम्॥२३१॥ आराधयाम्यहं तावद्देवं कञ्चित्सुसंयतः। येन तस्य कृतघ्नस्य राज्ञः कुर्यां प्रतिक्रियाम्॥२३२॥ इति तद्वचनं हृष्टः सोऽग्निवत्तोऽन्वमन्यत। सोऽपि तां गुणशर्माणि विशश्राम सुखं निशाम्॥२३३॥ अन्येद्युश्चाग्निवत्तोऽस्य सौख्यार्थं तत्र गुप्तिमत्। पातालवसतिप्रख्यं कारयामास भूगृहम्॥२३४॥ तत्रस्थश्चाग्निवत्तं स गुणशर्माब्रवीद्ग्रहः। इहान्तर्ब्रूहि कं देवं केन मन्त्रेण भक्तितः॥२३५॥ आराधयाम्यहं तावद्वरदं व्रतचर्यया। इत्युक्तवन्तं तं धीरमग्निवत्तोऽभ्यभाषत॥२३६॥ अस्ति स्वामिकुमारस्य मन्त्रो मे गुरुचोदितः। तेनाराधय तं देवं सेनान्यं तारकान्तकम्॥२३७॥ यस्य जन्माग्निभिर्देवैः प्रथितं शत्रुपीड़ितैः। दग्धोऽपि कामः सङ्कल्पजन्मा स्वर्गेण निर्मितः॥२३८॥