भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 473, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 473

४३६ कथासरित्सागर हिरण्याक्षादिभिर्मर्त्यैर्हेतुराज्याय कृत स यैः । ते गता ध्रुव एवाद्य व्यच्छस्तत्का विरोधिता ॥११४॥ निर्भरंसुखितास्तस्माद्वर्तध्वमितरेतरम् । अस्माकं येन सन्तोषः शिवं च जगतां भवेत् ॥११५॥ इति सिद्धिमताच्छ्रुत्वा भगवत्या दनोर्वचः । शक्रेण वीक्षितमुखो वृहस्पतिरुवाच ताम् ॥११६॥ नानुबन्धोऽस्ति देवानामसुरान्प्रति कश्चन । विकुर्वते न यद्येते मिथ्या देवानिमान्प्रति ॥११७॥ इत्युक्ते देवगुरुणा दानवेन्द्रो मयोऽब्रवीत् । स्याद्विकारोऽसुराणां चेत्सह्यास्तन्मुवि कथम् ॥११८॥ उच्चैःश्रवसमन्द्राय मृतसञ्जीवनं हयम् । प्रबलोऽथ शरीरं स्वं सुरेभ्यः कथमर्पयेत् ॥११९॥ त्रैलोक्यं हरये दत्त्वा विशेत्कारां कथं बलिः । अयोदेहः कथं देहं दद्याद्वा विश्वकर्मणे ॥१२०॥ अधिकं वा कियदुष्पि नित्यसम्भाविनोऽसुराः । छद्मना श्वेश बाध्यन्ते तदेषां नास्ति विक्रिया ॥१२१॥ एव मयासुरेणोक्ते सिद्धयात्रोचि तथा यथा । प्रीतिर्देवासुरादक्षत्रुमिय कण्ठग्रहोत्तरम् ॥१२२॥ तावद् भवान्या प्रहिता प्रतीहारी जयाभिधा । अत्रायात्पूजिता सर्वैः सुमेरुमवदच्च सा ॥१२३॥ देव्याहं प्रेषिता त्वां प्रत्यादिष्टं च तया तव । अस्ति ते कन्यका नाम्ना कामचूडामणिः सुता ॥१२४॥ सूर्यप्रभाय तां देहि शीघ्रं भक्ता हि सा मम । इत्युक्तो जयया प्रह्वः सुमेरुः प्रत्युवाच ताम् ॥१२५॥ यदादिशति देवी मां परमोऽनुग्रहो ह्ययम् । देवेनाप्ययमेवार्थः प्रागादिष्टो ममाभवत् ॥१२६॥ एवं सुमेरुणा प्रोक्ता प्राह सूर्यप्रभं जया । त्वयैषा सर्वभार्याणां भर्त्तव्योपरिचारिणी ॥१२७॥ सर्वास्योऽभिमतस्यान्यभ्यन्ताव्येषा भविष्यति । इत्यादिष्टं तवाप्यद्य देव्या गौर्या प्रसन्नया ॥१२८॥