कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 479, कुल 1079 में से
संदर्भ में पढ़ेंइदानीं बहिरन्यासां निवेशो हृदयेऽस्तु मे। अन्तः पुनस्त्ववैकस्या इति तां चान्वरञ्जयत् ॥१५९॥ ततो रतान्तसुप्तस्य प्रियाश्लेषसुखावहा। शनैः समाप्तिमगमन्निशा निद्रा च तस्य सा ॥१६०॥ प्रभाते च स उत्थाय गत्वा सूर्यप्रभस्ततः। आद्यास्ता रञ्जयामास निजभार्याः सह स्थिताः ॥१६१॥ तास्तं नववधूरक्तं यावत्परिहसन्ति च। सनर्मवक्रमधुरस्निग्धमुग्धैर्वचःक्रमैः ॥१६२॥ द्वाःस्थेनावेदितस्तावदागत्य प्रणिपत्य च। विद्याधरः सुषेणाख्यः कृतिनः स व्यजिज्ञपत् ॥१६३॥ देव त्रिकूटनाथाद्यैः सर्वैर्विद्याधरेश्वरैः। प्रेषितोऽस्मीहैवं च देव विज्ञापयन्ति ते ॥१६४॥ ऋष्यमाद्रौ तृतीयेऽह्नि ह्यभिषेकः शुभस्तव। संपाद्यतां तत्सर्वेषामुद्यमोऽत्र विधीयताम् ॥१६५॥ तच्छ्रुत्वा प्रत्यवोचत्तं दूतं सूर्यप्रभस्तदा। गच्छ त्रिकूटाधिपतिप्रभृतीन्ब्रूहि मद्गिरा ॥१६६॥ भवन्त एव कुर्वन्तु समारम्भं वदन्तु च। आत्मनश्च परं सज्जा वयमत्र स्थिताः पुनः ॥१६७॥ संपादनं तु सर्वेषां करिष्यामो यथायथम्। इत्यात्तप्रतिसन्देशः सुषेणः स ततो ययौ ॥१६८॥ सूर्यप्रभोऽपि चैकैकं प्रभासप्रभृतीन्सखीन्। देवानां याज्ञवल्क्यादिमुनीनां भूभृतां तथा ॥१६९॥ विद्याधरासुराणां च विससर्ज पृथक्पृथक्। निमन्त्रणाय सर्वेषां स्वाभिषेकमहोत्सवे ॥१७०॥ स्वयं जगाम चैकाकी कैलासं पर्वतोत्तमम्। हरस्य चाम्बिकायाश्च निमन्त्रणकृतोद्यमः ॥१७१॥ आरोहंश्च तमद्राक्षीच्छुभ्रभूतिसितं गिरिम्। सेव्यं श्वर्षिसिद्धानां द्वितीयमिव शङ्करम् ॥१७२॥ मर्यादधिश्वमार्गश्च दुरारोहं छत परम्। स तं पश्यन्ददर्शाथ वैद्रुमं द्वारमेकतः ॥१७३॥