कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 481, कुल 1079 में से
संदर्भ में पढ़ें४४४ कथासरित्सागर यदा प्रवेशं नैवात्र सिद्धिमानप्यवाप सः। तदैकाग्रेण मनसा स्तौति स्म शशिशेखरम्॥१७४॥ ततस्तद्द्वारमुद्घाट्य पुमान्गजमुखोऽब्रवीत्। एहि प्रविश तुष्टस्ते हेरम्बो भगवानिति॥१७५॥ ततः सूर्यप्रभस्तत्र प्रविश्यान्तं सविस्मयः। उपविष्टे महाभोगे ज्योतिरत्नसिंहासने॥१७६॥ द्वादशादित्यसंकाशमेकदंष्ट्रं गजाननम्। लम्बोदरं त्रिनेत्रं च ज्वलत्परशुमुद्गरम्॥१७७॥ विनायकं परिवृतं नानाप्राणिमुखैर्गणैः। ददर्श च ववन्दे च पादयोः प्रणिपत्य तम्॥१७८॥ सोऽपि तं विघ्नजित्प्रीतः पृष्ट्वागमनकारणम्। आरोहानेन मार्गेणेत्यवोचत्स्निग्धया गिरा॥१७९॥ ततः सूर्यप्रभः सोऽन्यामारूढः पञ्चयोजनीम्। पद्मरागमयं द्वारमपश्यदपरं महत्॥१८०॥ अनवाप्तप्रवेशश्च तत्रापि स पिनाकिनम्। देवं नामसहस्रेण तुष्टावानन्यमानसः॥१८१॥ ततः कुमारपुत्रेण स्वयं द्वारं विवृत्य तत्। उक्तात्मना विधातास्यनान्तः प्रावेश्यतात्र सः॥१८२॥ प्रविष्टश्च ददर्शात्र स्कन्दं ज्वालामहद्युतिम्। युक्तं शाखविशाखाद्यैः सदृशैः पञ्चभिः सुतैः॥१८३॥ स जातमात्रप्रतीवृष्टप्रहृष्टिशिशुग्रहैः। वृतं तं कोटिसंख्याकैर्गजैश्चेश्वरजानतैः॥१८४॥ सेनापि परितुष्टेन पृष्ट्वा कारणमागमे। तस्यारोहणमार्गोऽत्र व्यादिष्टः सरलात्मना॥१८५॥ एवं क्रमेण चान्यानि रत्नद्वाराणि पञ्च सः। सभैरवमहाकालवीरभद्रैः स नन्दिना॥१८६॥ भृङ्गिणा चामुरैः साकं निरुद्धानि यथाक्रमम्। अतीत्य प्राप पृष्ठेऽग्रे स्फाटिकं द्वारमुत्तमम्॥१८७॥ ततः स्तुवन्देवदेवं रुद्रेणैकेन सादरम्। प्रवेशितस्तदद्राक्षीच्छम्भोः स्वर्गाधिकं पदम्॥१८८॥