कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 501, कुल 1079 में से
संदर्भ में पढ़ें२६४ कुशाचरितसार एकदा आश्रममृगं हत्वा तन्मांसमादतुः । अर्धास्थिभिश्च वाल्मीकेरचक्रतुः क्रीडनीयकम् ॥९५॥ तत क्षिप्तो मुनिः सोऽथ सीतादेव्यानुनाधितः । प्रायश्चित्तं तयोरेवमादिक्षेत् कुमारयोः ॥९६॥ गत्वा कुबेरसरसः स्वर्णपद्मान्यथ लवः । तदुद्यानाच्च मन्दारपुष्प्याण्यानयतु द्रुतम् ॥९७॥ तैरेतौ भ्रातरावत्संल्लिङ्गमर्चयतामुभौ । तेनैतयोरिदं पापमुपशान्तिं गमिष्यति ॥९८॥ एतच्छ्रुत्वैव कैलासं स बालोऽपि लवो ययौ । आधस्कन्द कुबेरस्य सरस्तच्चोपवनं च तत् ॥९९॥ निहत्य यक्षानादाय पद्मानि कुसुमानि च । आगच्छन्नपि स श्रान्तो विशश्राम तरोस्तले ॥१००॥ अत्रान्तरं च रामस्य हयमेधे सुलक्षणम् । चिन्वन्मुख्यमागच्छत्तेन मार्गेण लक्ष्मणः ॥१०१॥ स लवं समराहूतं मोहनास्त्रेण मोहितम् । क्षत्रधर्मेण बद्ध्वा तमयोध्यामनयत्पुरीम् ॥१०२॥ तावच्च सीतामाश्वास्य लवागमनदुःखिताम् । वाल्मीकिः स्वाश्रमे तत्र ज्ञानी कुशमभाषत ॥१०३॥ भीतोऽयोध्यांमवष्टभ्य लक्ष्मणेन सुतो लवः । गच्छ मोधय तं तस्मादभिरस्त्रैर्विनिर्जितात् ॥१०४॥ इत्युक्त्वा दत्तदिव्यास्त्रस्तेन गत्वा कुशस्ततः । रोध्यमानामयोध्यायां यज्ञभूमिं सरोष सः ॥१०५॥ जिगाय लक्ष्मणं चात्र तन्निमित्तं प्रभाषितम् । युद्धे दिव्यैर्महास्त्रैस्तैस्ततो रामस्तमभ्यगात् ॥१०६॥ सोऽपि प्रभावाद्वाल्मीकेर्जेतुं नास्त्रं क्षमाक तम् । कुशं यत्नेन पप्रच्छ कोऽर्षस्ते को भवानिति ॥१०७॥ कुशस्ततोऽब्रवीद् बद्ध्वा लक्ष्मणेनाग्रजो मम । आनीतः इह तस्याहं मोचनार्थमिहागतः ॥१०८॥ आवां लवकुशौ रामतनयाविति जानकी । माता नौ वक्ति चेत्युक्त्वा तद्वृत्तान्तं शशंस सः ॥१०९॥