कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 511, कुल 1079 में से
संदर्भ में पढ़ें४७४ कथासरित्सागर बाणव्रणगलद्रक्तस्तस्तस्येभं शुशुभेर्दन्। सधातुनिर्झरोद्गारमञ्जनाद्रि म्व्यडम्बयत् ॥१६९॥ ततो लब्धजयावृत्ते तत्सैन्ये मिलितेऽखिले। पराभ्य हतशेषास्ते भित्वा दक्ष दिशो ययुः ॥१७०॥ ततो निवृत्तसंग्रामः पृथ्वीरूपो महीपतिः। स रूपभरदूतेन स्तूयमानपराक्रमः ॥१७१॥ व्रणितानीकविश्राम्य तस्यामेवाटवीभुवि। विजयी सरसीतीरे दिवसं वसति स्म सम् ॥१७२॥ प्रातस्तत प्रयातम्च स राजा क्रमशो व्रजन्। तत्राप नगरं वज्रपुरं तीरस्थमम्बुधेः ॥१७३॥ तत्रैकाहं विशश्राम तम्रत्येन महीभुता। उदारचरिताख्येन रचितोचितसत्क्रियः ॥१७४॥ तेनैवोपहृतैर्यानपात्रैस्तीर्त्वा च सागरम्। अष्टभिर्दिवसैः प्राप द्वीप मुत्तिपुर स तत् ॥१७५॥ बुद्ध्वा रूपभरस्तच्च राजा हृष्टस्तमभ्यगात्। मिलन्त स्म च तौ भूपौ कृतकण्ठग्रहौ मिथः ॥१७६॥ ततस्तेन समं पृथ्वीरूपो राजा स तत्पुरम्। विवेश पौरनारीणां पीयमान इवेक्षणैः ॥१७७॥ तत्र हेमलता राज्ञी स च रूपधरो नृपः। दृष्ट्वानुहपं दुहितुर्भर्तारं सं ननन्दतुः ॥१७८॥ अथ स्वसम्पदुचितं राज्ञा रूपधरेण सः। आचाररचितस्वस्तौ पृथ्वीरूपोऽत्र पार्थिवः ॥१७९॥ अम्युद्यतशिरोकाया वेदीमारुह्य शोभनः। लग्ने रूपलतायाः स सोत्सवः पाणिमग्रहीत् ॥१८०॥ सत्यं श्रुतं त्वया पूर्वमिति वक्तुमिव श्रुतिम्। प्रापोत्फुल्ला तयोर्दृष्टिरन्योन्यरूपवर्धिनोः ॥१८१॥ रत्नानि छात्रमोशेषु द्वयो रूपधरस्तयोः। ददौ तथा यथा सैष मन रत्नाकरो जनैः ॥१८२॥ निर्वृत्ते च सुतोद्वाह् पित्रङ्गच्छमणाना तान्। सम्पूज्य वस्त्राभरणैः सर्वानन्यानपूजयत् ॥१८३॥