भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 513, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 513

४७६ - कथासरित्सागर तत पुरे स्थितस्तस्मिन्पृथ्वीरूपनृपोऽथ सः। तद्दीपोचितमाहारं भेजे पानं च सानुगः ॥१८४॥ नृत्तगीतादिविधिभिर्गते दिने नक्तं विवेश च। शूल्को रूपलतावासभवनं सोऽवनीपतिः ॥१८५॥ आस्तीर्णरत्नपर्यङ्कं रत्नकुट्टिमशोभितम्। रत्नस्तम्भोम्भिताबोगं रत्नदीपैः प्रकाशितम् ॥१८६॥ तत्र भेजे तया सार्कं स रूपलतया युवा। धिरसङ्कल्पगुणितं यथेच्छं सुरतोत्सवम् ॥१८७॥ सुरतश्रमसुप्तश्च पठद्भिर्वन्दिमागधैः। बोधितः प्रातरुत्थाय तस्थाविन्द्रो यथा दिवि ॥१८८॥ एवं दश दिनान्यत्र पृथ्वीरूपनृपो वसन्। द्वीपे नवनवैर्भोगैर्विलसन् श्वशुराहृतैः ॥१८९॥ एकादशे दिने युक्तः स रूपलतया ततः। गणकानुगतो राजा प्रतस्थे कृतमङ्गलः ॥१९०॥ कृतानुयामः श्वशुरेणासमुद्रतटं च सः। वध्वा सह प्रवहणान्यारुरोहानुगायितः ॥१९१॥ दिनाष्टकेन तीर्त्वाब्धिं तीरस्थे मिलिते बले। उदारचरिते चाप्तप्राप्ते पत्रपुरं ययौ ॥१९२॥ तत्रोपचरितस्तेन राज्ञा विश्रम्य कानिचित्। दिनानि स ततः प्रायात् पृथ्वीरूपो नरेश्वरः ॥१९३॥ प्रियां रूपलतां हस्तिन्यारोप्य जयमङ्गले। रूक्ष्यांगगिरिनामानमात्मनारुह्य च द्विपम् ॥१९४॥ गच्छन् क्रमादविरतैः सोऽथ राजा प्रयाणकैः। उत्पलाकम्वजं प्राप प्रतिष्ठानं निजं पुरम् ॥१९५॥ तत्र रूपलतां दृष्ट्वा रूपदर्पं पुराङ्गनाः। जहुस्तत्कालमाश्चर्येनिर्निमेषविलोचनाः ॥१९६॥ राजधानीं प्रविश्याथ पृथ्वीरूपः कृतोत्सवः। ददौ चित्रकृते तस्मै ग्रामाम् राजा धनं च सः ॥१९७॥ श्रमणों पूजयित्वा च वसुभिस्तो यथोचितम्। सामन्तान् सचिबान् राजपुत्रांश्च सममानयत् ॥१९८॥