कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 521, कुल 1079 में से
संदर्भ में पढ़ेंसौवर्णे रत्ननिचितैः प्रासादैर्हिमवत्यपि । सुमेरुशिखरभ्रान्तिं कुर्वद्भिरुपशोभितम् ॥११॥ व्योमावतीर्णश्चोत्तीर्य विमानात् प्रविवेश तत् । सानाय्यदर्शनाभ्येत्यदिव लोकैर्बलोत्सुकैः ॥१२॥ प्रविष्टश्चराजधानीं च स श्वश्र्वा कृतमङ्गलः । अलङ्कारवतीयुक्तः सबयस्यवसन्तकः ॥१३॥ तत्र तं दिवसं दिव्यैर्भोगैः श्वश्रूप्रभावजैः । उवास सुकृती स्वर्गे इव श्वशुरवेश्मनि ॥१४॥ अन्येद्युस्तं च सा श्वश्रूरवोचत् काञ्चनप्रभा । अस्ति स्वयम्भूभगवान् नगरेऽस्मिन्नुमापतिः ॥१५॥ स दृष्टपूजितो भोगं मोक्षं चैव प्रयच्छति । अलङ्कारवतीपित्रा तत्रोद्यानं कृतं महत् ॥१६॥ तीर्थं गङ्गासरःसंज्ञमन्वर्थं चावतारितम् । तं तमर्चयितुं देवं विहर्तुं चाद्य गच्छत ॥१७॥ एव श्वश्र्वा सयोक्तस्तु शार्वोद्यानं सहानुगः । नरवाहनदत्तोऽगादलङ्कारवतीसखः ॥१८॥ तद्बभौ काञ्चनस्कन्धे रत्नशाखामनोरमे । मुक्तागुच्छाच्छकुसुमे कान्तं विद्रुमपल्लवे ॥१९॥ तत्र गङ्गासरःस्नात पूजितोमापतिश्च सः । बभ्राम रत्नसोपाना वापी काञ्चनपङ्कजाः ॥२०॥ तासां तीरेषु वृक्षेपू कल्पवल्लीगृहेषु च । सहामलङ्कारवत्या स विजहारानुगाम्बितः ॥२१॥ दिव्यैरापानसङ्गीतैः परिहासैश्च पेशलैः । मरुभूत्यार्यनैरुक्तै रमते स्म च तेषु सः ॥२२॥ मासमात्रमुवासैष क्रीडन्नुद्यानभूमिषु । नरवाहनदत्तोऽत्र श्वश्रूविद्याविभूतिभिः ॥२३॥ ततो देवोचितैर्वस्त्रैरलङ्कारैश्च पूजितः । सबधूकः सहामात्यः काञ्चनप्रभया तया ॥२४॥ आययौ स विमानेन तेनैव सह सानुगः । कौशाम्बीं सहितो वध्वा पित्रोर्दत्तेक्षणोत्सवः ॥२५॥