कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 543, कुल 1079 में से
संदर्भ में पढ़ें५६ कथासरित्सागर सा रूपयौवनोत्सेका नैच्छत् कञ्चित् पतिं यदा। तदासिद्दुग्रहक्रुद्धौ पितरौ शपतः स्म ताम् ॥१७१॥ मानुष्यं व्रज तत्रापि न भर्तृसुखमाप्स्यसि। कन्यैव षोडशाब्दा तां त्यक्त्वा तनुमिहैष्यसि ॥१७२॥ मर्त्यो विप्रो भावी च खड्गसिद्धोऽप्य ते पतिः। मुनिकन्याभिलाषेण शापान्मर्त्यत्वमागतः ॥१७३॥ अनिच्छन्तीमपि त्वां च मर्त्यलोकं स नेष्यति। त्वया तस्य वियोगोऽत्र भविष्यत्यन्यनीतया ॥१७४॥ पूर्वजन्मनि तन्नाष्टौ हृता हि परयोषितः। तेनाष्टजन्मभोग्याहं दुःखं सोऽनुभविष्यति ॥१७५॥ त्वं चात्र जन्मन्येकस्मिन्नष्टानाभिव जन्मनाम्। दुःखं प्राप्स्यसि विधानां ह्यंशेन मनुषीकृता ॥१७६॥ सर्वस्यैव हि पापिष्ठसम्पर्कः पापभागदः। समपापः पुन स्त्रीणां भर्त्रा पापेन सङ्गमः ॥१७७॥ नष्टस्मृतिः पतींश्च त्वं बहून् प्राप्स्यसि मानुषान्। स्वयोचितवरद्वेषदुग्रहो विहितो यतः ॥१७८॥ योऽयाचत समानस्त्वां शुचरो मद्यमप्रभः। भूत्वा स मानुषोऽभूभूवन्ते भावी पतिस्तव ॥१७९॥ ततस्त्वं शापनिर्मुक्ता स्वलोकं पुनरागता। तमेव शुचरीभूतं सम्प्राप्स्यस्युचितं पतिम् ॥१८०॥ तदेष पितृशप्ता सा मूर्त्तानङ्गरतिः क्षितौ। प्राप्ताथ पित्रोनिकटं जातानङ्गप्रभा पुनः ॥१८१॥ अतो वीरपुरं गत्वा जित्वा तत्पितरं रणे। जानन्तमपि कौलीनरक्षितं तामवाप्नुहि ॥१८२॥ इमं गृहाण खड्गं च येन हस्तगतेन ते। गतिर्भविष्यत्याकाशे किं चाजयो भविष्यसि ॥१८३॥ इत्युक्त्वाऽर्पितखड्गा सा तस्य देवी तिरोदधे। स च प्रबुबुधे दिव्यं खड्गं हस्ते ददर्श च ॥१८४॥ अघोरपाय प्रहृष्टात्मा जीवदत्तो नताम्बिकः। तत्प्रसादामृताप्यायच्छान्ताघायतपः क्लमः ॥१८५॥