भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 553, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 553

५१२ कथासरित्सागर स्वनामलाञ्छने तस्मिन् सोऽनङ्गप्रमया तया। सह विषयसुखस्तस्थौ ततो हरिवरो नृप ॥२१५॥ साप्यनङ्गप्रभा तत्रैवासीत्तदनुरागिणी। विस्मृत्य स्व प्रभावं तं सर्वं शापविमोहिता ॥२१६॥ अत्रान्तरे स तत्राद्रौ जीवदत्तो न केवलम्। प्रबुद्धो नैक्षतानङ्गप्रभां यावत् स्वमप्यसिम् ॥२१७॥ क्व साऽनङ्गप्रभा कष्टं क्व स खड्गोऽपि किं नु सम्। ह्रुत्वा गता सा किं वा तौ नीतौ द्वावपि केनचित् ॥२१८॥ इत्युद्भ्रान्तो बहून् कुर्वन् वितर्कान् स दिनत्रयम्। गिरि तं विचिनोति स्म वह्यमानः स्मराग्निना ॥२१९॥ ततोऽवतीर्य चिन्वानो वनानि दिवसान् दश। स बभ्राम न चापश्यत् तस्या पादमपि क्वचित् ॥२२०॥ हा दुर्जनविषे कुब्धात् सा दत्तापि कथ त्वया। खड्गसिद्ध्या सह ह्रुता प्रियानङ्गप्रभा मम ॥२२१॥ इत्याक्रन्दन्निराहारो भ्रमन्नेकमवाप्तवान्। ग्रामं तत्र विवेशैक्रमाढ्य द्विजगृहं च सः ॥२२२॥ गृहिणी तत्र सुभगा सुवस्त्रा चोपवेश्य तम्। आसने प्रियदत्ताख्या स्वचटीं शीघ्रमाविशत् ॥२२३॥ त्वरितं जीवदत्तस्य पादौ क्षालयतास्य हि। निराहारस्य विरहाद्दिनमद्य त्रयोदशम् ॥२२४॥ तच्छ्रुत्वा विस्मितो जीवदत्तोऽन्तर्विममर्श सः। इहानङ्गप्रभा प्राप्ता किं किमेषाथ योगिनी ॥२२५॥ इति ध्यायन् धौतपादो भुक्ततद्दत्तभोजनः। प्रणतः प्रियदत्तां तामरयार्थ्या पृच्छति स्म सः ॥२२६॥ एकं ब्रूहि कथं वेत्सि मद्वृत्तान्तमनिन्दिते। द्वितीयं चापि कथय प्रियासङ्गो क्व मे गतो ॥२२७॥ तच्छ्रुत्वा तमबोधत् सा प्रियदत्ता पतिव्रता। भर्तुरन्यो न मे चित्ते स्वप्नेऽपि कुरुते पदम् ॥२२८॥ पुत्रभ्रातृसमान् यान् पश्यामि पुरुषानहम्। न च मेऽनर्चितो याति कदाचिदतिथिगृहात् ॥२२९॥