भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 603, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 603

५५६ कथासरित्सागर देवपुत्रस्य सुप्रभस्य कथा अहं हि भावि पश्यामि दिव्यदृष्ट्या शुभाशुभम् । त्रिदिवस्थो यथाद्राक्षीत्सुप्रभो देवपुत्रकः ॥११७॥ स हि पुण्यक्षयात्स्वर्गात्पतनं भावि दिव्यदृक् । सप्ताहात्सूकरीगर्भे सम्भवं श्वशतात्मनः ॥११८॥ ततः स सूकरीगर्भवासक्लेशं विभावयन् । देवपुत्रोऽत्यजोद्भ्रान्तिर्दिव्यान्भोगान्सहारमनाः ॥११९॥ हा स्वर्गं हा ह्यप्सरसो हा नन्दनलतागृहाः । हा वत्स्यामि कथं क्रोडीगर्भे तदनु कर्दमे ॥१२०॥ इत्यादि विलपन्तं तं श्रुत्वाभ्येत्य सुराधिपः । पप्रच्छ सोऽपि स्वं तस्मै दुःखहेतुमवर्णयत् ॥१२१॥ ततः शक्रो जगादैनमस्त्युपायोऽत्र ते शृणु । व्रजौ नमः शिवायेति जपञ्छरणमीश्वरम् ॥१२२॥ तं गत्वा शरणं हित्वा पापं पुण्यमवाप्स्यसि । येन प्राप्स्यसि न क्रोडयोनिं स्वर्गाच्च च्युतिम् ॥१२३॥ इत्युक्तो देवराजेन सुप्रभोऽथ तथेति सः । उक्त्वा नमःशिवायति शम्भुं शरणमग्रहीत् ॥१२४॥ तमयं स दिनं षड्भिस्तत्प्रसादान्न केवलम् । निक्षिप्तं सूकरीगर्भे यावत्स्वर्गादुपर्यगात् ॥१२५॥ सप्तमेऽह्नि च तं स्वर्गे तत्रापश्यत् शतक्रतुः । वीक्षते यावदधिकं लोकान्तरमसौ गतः ॥१२६॥ इत्थं शुशोष स यथा दृष्ट्वाघं भावि सुप्रभः । तथैव भाविनं मृत्युं दृष्ट्वा शोचामि भूभृतः ॥१२७॥ एवमुक्तवतीं भूमिं तां स वीरवरोऽब्रवीत् । यथाम्ब सुप्रभस्याभूदुपायः शक्रवाक्यतः ॥१२८॥ तथा यद्यस्ति राज्ञोऽस्य रक्षोपायस्तदुच्यताम् । इति वीरवरोक्ते पृथिवी तमुवाच सा ॥१२९॥ १ अदृष्ट्वेत्यर्थः । अपश्येति प्रयोगश्चिन्त्योऽमीषां पाणिनीयानाम्।