कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 637, कुल 1079 में से
संदर्भ में पढ़ें५९ कथासरित्सागर तच्छ्रुत्वा स यशोवर्मा देवीं तां प्रत्यभाषत। एतयोर्निपुणं वत्से नाहं भेदं धियोरिति ॥१६४॥ सततस्तमवदद्देवी स्वदेशे तर्हि यौ सख। भोगवर्माऽर्थवर्माणौ विद्येते वणिजावुभौ ॥१६५॥ तयोर्गत्वा धियं पश्य ततो यत्सदृशी च ते। रोचिष्यत तत्सदृशी त्वयागत्याभ्यतामिति ॥१६६॥ एतच्छ्रुत्वा प्रबुध्यैव स प्रातः कृतपारणः। स्वंऽशा कौतुकपुरं यशोवर्मा ततो ययौ ॥१६७॥ भोगवर्माऽर्थवर्मणोः वणिजोः कथा तत्रागात् प्रथमं तावत् स गृहानर्थवर्मणः। असङ्ख्यहेमरत्नादिम्यवहाराजितश्रियः ॥१६८॥ पश्यन्तां सम्पदं तस्य यथावृत्तमपाययौ। कृतातिथ्यश्च तेनासौ भोजनाय न्यमन्त्र्यत ॥१६९॥ ततोऽत्राभुङ्क्त मधृतं समांसम्यञ्जनं च सः। प्राघूर्णोचितमाहारं पार्श्वे तस्यार्थवर्मणः ॥१७० ॥ अर्थवर्मा तु भुङ्क्ते स्म घृतार्धपलसंयुतान्। सक्तून् भक्तमपि स्तोकं मांसव्यञ्जनमल्पकम् ॥१७१॥ सार्थवाह किमेतावदश्नासीति सकौतुकम्। स यशोवर्मणा पृष्टो वणिगेवमभाषत ॥१७२॥ अद्य त्वदुपरोधेन समांसव्यञ्जनं मया। भुक्तं स्तोकं घृतस्यार्धपलं भुक्तं च सक्तवः ॥१७३॥ सदा तु घृतकपं च सक्तून्धाश्नामि केवलान्। अतोऽधिकं मे मन्दानलरुदरे नैव जीर्यते ॥१७४॥ तच्छ्रुत्वा स यशोवर्मा विचिकित्सन्निनिन्द ताम्। हृत्स्येन श्रियं तस्य निष्फलामर्थवर्मणः ॥१७५॥ ततो निशागमे भक्तं क्षीरं चानाययत्पुनः। अर्थवर्मा वणिज्सस्य स यशोवर्मणः कृते ॥१७६॥ यशोवर्मा च भूयस्तद्यथाकाममभुङ्क्त सः। अर्थवर्मापि स तदा क्षीरस्यर्धं पलं पपौ ॥१७७॥ तत्रैव चवरस्थाने तावास्तीर्णशयनायुभौ। यशोवर्मार्थवर्माणौ शनैर्निद्रामुपेयतुः ॥१७८॥