कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 663, कुल 1079 में से
संदर्भ में पढ़ेंसाद्य प्राणाधिका तस्य राज्ञो मदनसुन्दरी। आसीदग्रमहिष्यस्याप्यच्युतस्येव रुक्मिणी ॥१०५॥ अन्योन्यवदनासक्तलोचने स्मरसायकैः । पीडिताविव तौ चास्तां दम्पती चारुपक्ष्मभिः ॥१०६॥ एकदा चाजगामात्र विकसत्केसरावलीः। वलयन् मानिनीमानमातङ्गमधुकेसरी ॥१०७॥ लग्नालिमाला मौर्वीका पुष्पेषोः कुसुमाकरः। सञ्जीचकार चोत्फुल्लचूतवल्लीधनुर्लताः ॥१०८॥ वभौ घोपवनानीव चेतांस्यध्वगयोषिताम्। समुद्दीपिकामानि कम्पयन्मरुदानिलः ॥१०९॥ पूर्वा नवीनां पुष्पाणि तरूणां शशिनः कलाः। क्षीणानि पुनरायान्ति यौवनानि न देहिनाम् ॥११०॥ भो मुञ्चतमानकलहा रमध्वं दयितान्विताः। इतीव मधुरालापाः कोकिला जगदुर्जनान्' ॥१११॥ तत्कालं च मधूद्यानं विहर्तुं प्रविवेश सः। राजा कनकवर्षोऽत्र सर्वैरन्तःपुरैः सह ॥११२॥ मूर्च्छत्स्निग्धमणिकानां रक्तैः परिजनोज्ज्वलैः । गीतैर्वरवराङ्गानां च कोकिलभ्रमरध्वनिम् ॥११३॥ दय्या मदनसुन्दर्या समं तत्र स भूपतिः। चिक्रीड सावरोधोऽपि कुसुमावचयादिभिः ॥११४॥ विहृत्य चात्र सुचिरं स्नातुं गोदावरीं नृपः। अवतीर्य जलक्रीडां सान्तःपुरजनो व्यधात् ॥११५॥ मुखैः पद्मानि नयनैरुत्पलानि पयोधरैः। रथाङ्गनाम्नां युग्मानि नितम्बैः पुलिनस्थलीः ॥११६॥ विजित्य तस्याः सरितः शोभमामासुराशयम् । तरङ्गोच्छितामर्षभूम हायासावद्धनाः ॥११७॥ अम्भोविहारविगलद्वस्त्रव्यक्ताङ्गयष्टिषु । रेमे कनकवर्षस्य त्वाग तस्य सदा मनः ॥११८॥
१ माघेन तुलना कार्या—'उपजघ्रतु मानमलं शतः! विपदिनैः पुनरेति वयं वपुः पद। वामृताभिरितीव समीरिते स्मरकते रमते स्म वधूजनः॥'-माघ