भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 707, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 707

१६० कथासरित्सागर

अन्यद्युः स मुनिर्धर्मव्याधमन्विष्य तत्र तम्। विपणिस्थमुपागच्छत् कुर्वाणं मांसविक्रयम् ॥१८३॥ धर्मव्याधश्च दृष्ट्वैव स तं मुनिमभाषत। किं पतिव्रतया ब्रह्मन्निह त्वं प्रेषितस्तया ॥१८४॥ तच्छ्रुत्वा विस्मितोऽवादीद्धर्मव्याधमपि स तम्। ईदृशं ते कथं ज्ञानं मांसविक्रयिणः सतः ॥१८५॥ इत्युक्तवन्तं तमृषिं धर्मव्याधो जगाद सः। मातापित्रोरहं भक्तस्तौ ममकं परायणम् ॥१८६॥ तयोः स्नापितयोः स्नामि भुञ्जे भोजिंतयोस्तयोः। शये शयितयोस्तेन ज्ञानमीदृग्विधं मम ॥१८७॥ मांसं चान्याहृतस्माहं मृगाद्वृत्तये परम्। स्वधर्मनिरतो भूत्वा विक्रीणे भार्ययार्हतः¹ ॥१८८॥ ज्ञानविघ्नममहङ्कारमहं सा च पतिव्रता। नैव कुर्वो मुने तेन निर्बाधज्ञानमावयोः ॥१८९॥ तस्मात्त्वमप्यहङ्कारं मुक्त्वा शुद्ध्य मुनिव्रतः ॥ स्वधर्मं चर येनाशु परं ज्योतिरवाप्स्यसि ॥१९०॥ इति तेनानुशिष्टश्च धर्मव्याधेन तद्गृहान्। गत्वा दृष्ट्वा च तच्चर्यां मुनिस्तुष्टो वनं ययौ ॥१९१॥ सिद्धस्तदुपदेशाच्च सोऽभूत्तावपि जग्मतुः। सिद्धिं पतिव्रताधर्मव्याधौ तद्धर्मचर्यया ॥१९२॥ एष प्रभावो भक्तानां पत्यौ पितरि मातरि। तदेहि सम्भावय तां मातरं दर्शनोत्सुकाम् ॥१९३॥ एवं पित्रा महीपाल स चन्द्रस्वामिमोदितः। प्रतिपेदे स्वदेशाय गन्तुं मात्रनुरोधतः ॥१९४॥ अनन्तस्वामिने सर्वं धर्मपित्रे निवेद्य तत्। तेनात्तमाट स ततः प्रायात्पितृसखो निशि ॥१९५॥ क्रमात् प्राप्य स्वदेशं च जननीं दर्शनेन ताम्। आनन्दयदहेवातिं मधु पिकवधूमिव ॥१९६॥


१ भार्ययालोभनेत्यर्थः। गृहो–कोशः।

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 707, कुल 1079 में से · BharatKosha