भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 713, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 713

२६ कथासरित्सागर सुप्तस्य तस्य गत्वथ पार्श्वान्खड्गं तमग्रहीत्। स राजा तेन भूयश्च प्रभावं दिव्यमाप्तवान्॥२२७॥ ततः पाशुपतं पादप्रहारेण प्रबोध्य तम्। निरभर्त्सयदवापच्च स वीरो नावधीत्सुतम्॥२२८॥ प्राविशच्चासुरं पुरं सपरिच्छदया तया। प्राप्तया स स्वया सार्धं सिद्धयवासुरकन्यया॥२२९॥ स च पाशुपतः सिद्धेर्भ्रष्टः कष्टमगात् परम्। कृतघ्नाश्चिरसिद्धार्था अपि भ्रश्यन्ति हि ध्रुवम्॥२३०॥ एवत्साक्षाद्विलोक्यैवाहमिह प्राप्तः परिभ्रमन्। तद्देवि प्रियसंगमस्तव भावी चिरादपि॥२३१॥ यथा त्रिभुवनस्याभूच्छुभङ्कन्नहि सीदति। इति तस्माद्द्विजाच्छ्रुत्वा सोप धन्धुमती ययौ॥२३२॥ चकार च कृतार्थं तं विप्रं दत्त्वा धनं बहु। अन्यद्युश्च द्विजोऽपूर्वस्तमागाद्दूरदेशजः॥२३३॥ तं च बन्धुमती सोत्का प्रोक्ताभिज्ञाननामका। भर्तुर्वार्त्तामपृच्छत्सा सोऽथ तां ब्राह्मणोऽभ्यधात्॥२३४॥ न स देवि मया दृष्टस्त्वद्भर्त्ता क्वापि किं त्वहम्। अन्वर्थं सुमनोनामा तवाद्य गृहमागतः॥२३५॥ तदाशु सौभगस्य ते भावीत्याख्याति मे मनः। भवत्येव च संयोगश्चिरविश्लेषिणामपि॥२३६॥ तथा च कथयाम्येतामत्र देवि कथां शृणु। नलदमयन्तीकथा निषधाधिपती राजा नलो नामाभवत्पुरा॥२३७॥ यस्य रूपेण विजितः कामो मन्येऽब्रमागतः। कोपितत्रिपुरारातिनेत्राग्नावजुहोत्तनुम् ॥२३८॥ तेनाभार्य्येण सदृशी भार्याद्यापि विचिन्वता। दमयन्तीति भीमस्य विदर्भाधिपतेः सुता॥२३९॥ १ अत्रोल्लिखिता नलकथा महाभारतविधेनितकथातो किञ्चिदिव भिन्ना विलोक्यते।