भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 727, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 727

६८ कथासरित्सागर तावच्च तत्पिता भीमो नलोदन्तमवेत्य तम्। तयोरन्वेषणायाप्ताञ्चरान् दिक्षु विसृष्टवान्॥३३०॥ तन्मध्याच्च सुवेषाख्य एकस्तत्सकियो भ्रमन्। सुबाहो राजधानीं तो प्राप ब्राह्मणरूपभृत् ॥३३१॥ स तत्र दमयन्तीं तामागन्तूश्चिन्वतीं सदा। अद्रक्षीत् साप्यपश्यत् तु स्थिता पितृमन्त्रिणम् ॥३३२॥ अन्योन्यं प्रत्यभिज्ञाय समेत्य रुदत स्म तौ। तथा यथात्र राज्ञी सा सुबाहोस्तदबुध्यत ॥३३३॥ यावच्चानाय्य सा देवी तौ यथावस्तु पृच्छति। बुबुधे दमयन्तीं तां तावत्स्वभगिनीसुताम् ॥३३४॥ ततः सा भर्तुरावेद्य तां सम्मान्य पितुर्गृहम्। रथेऽधिरोप्य व्यसृजत्ससुयेणां ससनिकाम् ॥३३५॥ तत्र सा दमयन्त्यासीत् प्राप्तापत्यद्वया सती। पित्रापि दृश्यमाना सा भर्तुर्वातां विचिन्वती ॥३३६॥ तत्पिता व्यसृजच्चारानन्वेष्टुं तं च सत्पतिम्। सूदस्यन्दनविद्याभ्यां विद्याभ्यामुपलक्षितम् ॥३३७॥ बालां वने प्रसुप्तां नृशंस सन्त्यज्य कुमुदिनीकान्ताम्। प्राप्यैवाम्बरखण्डं चन्द्रादृग्भ्व क्व यातोऽसि ॥३३८॥ एवं भवद्भिर्वक्तव्यं स्थिरा शङ्क्येत यत्र सः। इत्यादिदेश चारांस्तांस्स च भीमो महीपतिः ॥३३९॥ अत्रान्तरे स राजा च नलस्तस्मिन् वने निशि। प्रावृतार्धपटो दूरं गत्वा दावाग्निमैक्षत ॥३४०॥ भो महासत्त्व यावन्न वह्नेरङ्गमवसोऽमुना। अपसारय मां तावद्भावाग्निनिकटादितः ॥३४१॥ इत्यत्र तद्वचः श्रुत्वा दत्तदृष्टिर्ददर्श सः। [L27: आबद्धमण्डलं नागं नभो दावानलान्तिके ॥३४२॥ फणारत्नप्रभाभासजटिलं वनवह्निना। गृहीतमिव तेजोप्रहतिहस्तेन मूर्धनि ॥३४३॥ उपेत्य कृपयां सोऽथ तं धृत्वा नीत्वा च दूरतः। त्यक्तुमिच्छति यावत्स तावन्नागोऽब्रवीत्स तम् ॥३४४॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 727, कुल 1079 में से · BharatKosha