कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 731, कुल 1079 में से
संदर्भ में पढ़ें१८४ कथासरित्सागर शीर्णोऽम्बरेकदेशश्चन्द्र प्राप्यायमण्डल प्रविष्टन् । कुमुदिन्या यददृश्यो जातस्तत्का नुहासता तस्य' ॥३६०॥ एतद्द्रुततरं श्रुत्वा सत्य सम्भाव्य स नलम्। विपद्युद्भूतवैरूप्यं धारः सोऽथ ययौ ततः ॥३६१॥ विदर्भान् प्राप्य भीमाय राज्ञे भार्यायुताय सः। दमयन्त्यै च तत्सर्वं दृष्टश्रुतमवर्णयत् ॥३६२॥ ततोऽथ दमयन्ती सा पितरं स्वैरमब्रवीत्। निस्सन्देहं स एवार्यपुत्रः सूदमिषे स्थितः ॥३६३॥ तत्तदानयने युक्तिर्ममता क्रियतामिह। ऋतुपर्णस्य नृपतेस्तस्य दूतो विसृज्यताम् ॥३६४॥ प्राप्तमात्रश्च स भूपमेवं तत्र ब्रवीतु सः। गतः क्वापि नलो राजा प्रवृत्तिर्नास्य बुध्यते ॥३६५॥ तत्प्रातः कुरुत भूयो दमयन्ती स्वयंवरम्। अतोऽद्यैव विदर्भेषु शीघ्रमागम्यतामिति ॥३६६॥ ततः श्रुतैतद्वार्तेन स रथज्ञानिना नृपः। एकाहेनार्यपुत्रेण साक ध्रुवमिहेष्यसि ॥३६७॥ एवं सपितृकालोच्य सन्दिश्य च तथैव सा। पर्णादान् व्यसृजद्दूतं दमयन्ती यथोचितम् ॥३६८॥ तेनर्तुपर्णो गत्वा स तथैवोक्तः समुत्सुकः। जगाद सूदरूपं तं प्रणयात् पार्श्वगं नलम् ॥३६९॥ ह्रस्वबाहो रथज्ञानं ममास्तीत्यवदद् भवान्। तत्प्रापय विदर्भान् मामद्यैबोत्सहते यदि ॥३७०॥ तच्छ्रुत्वैव नलो बाढं प्रापयामीत्युदीर्य सः। गत्वा वराश्वान् संयोज्य सज्जं चक्रे रथोत्तगम् ॥३७१॥ स्वयंवरप्रवादोऽयं जाने मत्प्राप्तये तया। कृतो न दमयन्ती तु सा स्वप्नेऽपीदृशी भवेत् ॥३७२॥ तत्तत्र तावद् गच्छामि पश्यामीति विचिन्त्य सः। राज्ञस्तस्यर्तुपर्णस्य सज्जं रथमुपानयत् ॥३७३॥ आरूढे च नृपे तस्मिंस्तं सबाहयितुं रथम्। नलः प्रवृत्ते तादग्र्जबजबैगेन रहसा ॥३७४॥