कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 733, कुल 1079 में से
संदर्भ में पढ़ें१८४ कथासरित्सागर रथवेगच्युतं वस्त्रं प्राप्तं रथविधारणम्। ब्रुवाणमथ मार्गे तमृतुपर्णं नलोऽब्रवीत् ॥३७५॥ राजन् क्व तव तद्वस्त्रमनेनैव क्षणेन हि। बहूनि योजनान्येव व्यतिक्रान्तो रथस्तव ॥३७६॥ श्रुत्वैतदृतुपर्णस्तमवादीदङ्ग देहि मे। रथज्ञानमिदं तुभ्यमक्षज्ञानं ददाम्यहम् ॥३७७॥ येन वश्या भवन्त्यक्षाः संख्याज्ञानं च जायते। सम्प्रत्येव च पश्यात्र वदामि प्रत्ययं तव ॥३७८॥ दृश्यतेऽग्रे तरोर्योऽस्य संख्यामेतस्य तेऽधुना। वच्म्यहं फलपर्णानां गणयित्वा च पश्य ताम् ॥३७९॥ इत्युक्त्वा फलपर्णानि यावन्त्येव जगाद सः। नलेन गणितान्यासंस्तावन्त्येवात्र शाखिनि ॥३८०॥ ततो नलो रथज्ञानमृतुपर्णाय तद्ददौ। ऋतुपर्णोऽप्यदादक्षज्ञानं तस्मै नलाय तत् ॥३८१॥ परीक्षते स्म तज्ज्ञानं नलो गत्वाऽपरे तरौ। सम्यक् च बुबुधे संख्यां पत्रादिष्वत्र तेन सः ॥३८२॥ ततो हृष्यति यावत् स तावत्तस्य शरीरतः। निरगात् पुरुषः कृष्णस्तं स कोऽसीति पृष्टवान् ॥३८३॥ सोऽहं कलिः शरीरात्त्वां दमयन्तीवृतस्य ते। ईर्ष्याया प्राविशं तेन भ्रष्टा द्यूतेन ते श्रियः ॥३८४॥ ततस्त्वां दशतस्तेन कार्कोटेन तदा वने। न दग्धस्त्वमहं त्वेव पश्य दग्धस्त्वयि स्थितः ॥३८५॥ मिथ्या परोपकारो हि कृतः स्यात् कस्य शर्मणे। तद्गच्छाम्यवकाशो हि नास्त्यन्येषु न च त्वयि ॥३८६॥ इत्युक्त्वा स कलिस्तस्य तिरोऽभूत् सोऽपि तत्क्षणम्। जातधर्ममतिः प्राप्ततेजाः प्राग्वद्बभूव सः ॥३८७॥ आरुह्य वाह्य रथं तस्मिन्नेवाह्नि तं जवात्। विदर्भमृतुपर्णं तं प्रापयामास भूपतिम् ॥३८८॥ स चोपहस्यमानोऽत्र पृष्टागमनकारणः। ऋतुपर्णो जगौ राजगृहासन्ने समावसत् ॥३८९॥