भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 757, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 757

७१ कथासरित्सागर तदा चेश्वरवर्माभूत्तद्दोलाऽऽरूढमानसः। शुचेवाल्पाल्पमाहारपानं चक्रे च सुन्दरी ॥१०२॥ गीतवादित्रनृत्तेषु न बबन्ध रतिं च सा। आश्वास्यते स्म प्रणयैस्तत्परीश्वरवर्मणा ॥१०३॥ ततो दिने वयस्योक्ते सुन्दरीमन्दिरात्ततः। चचालेश्वरवर्मा स कुट्टनीकृतमङ्गलः ॥१०४॥ अनुवव्राज यावच्च सुन्दरी तं समातृका। नगराद्बहिराकूपाद्बद्धान्तर्जलिकान्ततः । ॥१०५॥ ततो निवर्त्य यावच्च सुन्दरी तां प्रयाति सः। तावदम्बा तया कूपे जानुप्लुप्ते निक्षिपिप ॥१०६॥ हा हा स्वामिनि हा पुत्रीत्याक्रन्द्य सुमहांस्ततः। दासीनां भृत्यवर्गस्य तन्मातुश्चात्र शुश्रुवे ॥१०७॥ तेन प्रतिनिवृत्यैव समित्रः स वणिक्सुतः। कूपे क्षिप्ततनुं कान्तां बुद्ध्वा मोहमगात्क्षणम् ॥१०८॥ सप्रलापं च शोचन्तौ तस्मिन् मकरकट्धवः। स्वानबातारयद् भृत्यान्कूपे स्निग्धान् ससंबिदः¹॥१०९॥ रज्जुभिस्तेऽवतीर्यैवं दिष्ट्या जीवति जीवति। इत्युक्त्वा तां तत कूपादुत्क्षिपन्ति स्म सुन्दरीम् ॥११०॥ उत्क्षिप्ता मृतकल्पा सा क्रूरात्मानं निवेदितम्। प्रत्यागतं वणिक्पुत्रमालापं शनकैर्ददौ ॥१११॥ समाश्वस्तां समादाय हृष्टस्तां सानुगः प्रियाम्। अगादीश्वरवर्मासौ प्रत्यावृत्यैव तद्गृहम् ॥११२॥ निश्चित्य सुन्दरीप्रेमप्रत्ययं जन्मः फलम्। तत्प्राप्तिमेव मत्वा स यात्रामुद्धिं पुनर्ब्रही ॥११३॥ ततो ह्यद्यस्थितिं तत्र सोऽप्यंवस्त सखा पुनः। तमम्यधात् सखे मोहात्विमात्मा नाशितस्त्वया ॥११४॥ मा भूत्त सुन्दरीसमहप्रत्ययं कूपपाततः। अतश्चर्या कुट्टनीकूटरचना हि विधरपि ॥११५॥ १ प्रथममेव शिक्षितान्।