कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 765, कुल 1079 में से
संदर्भ में पढ़ें७१८ कथासरित्सागर इत्युक्त्वा सुन्दरी पादौ जग्राहेष्वरवर्मणः। ऊचुस्ततोऽर्थदत्ताद्या दीयतां यद्वमत्विति॥१६१॥ ततश्चेश्वरवर्मा तं तथा दातुममन्यत। अनयत्सह सुन्दर्या दिनं तच्च प्रहृष्टया॥१६२॥ प्रातश्चाभ्यर्थमानायै सुन्दर्यै मर्कटं स तम्। निगीर्णगुप्तदीनारसहस्रत्रितयं ददौ॥१६३॥ तन्मूल्यं गृहसर्वस्वं तस्याश्चादाय तत्क्षणम्। ततः प्रायाद्द्रुतं पोतात् स्वर्णद्वीपं वणिग्जया॥१६४॥ सुन्दर्यै च प्रहृष्टायै ददावासौ दिनद्वयम्। स सहस्रं सहस्रं तान् दीनारान्व्यधित कपिः॥१६५॥ तृतीयेऽह्न्वथ सत्प्रीत्या याच्यमानोऽप्यसौ यदा। नादात्किञ्चित्तदा मुष्ट्या सुन्दरी तमताडयत्॥१६६॥ स ताडितः क्रुधोत्पत्य मर्कटो दशनैर्नखैः। सुन्दर्यास्तज्जनन्यश्च घ्नन्त्याः पाटितवान् मुखम्॥१६७॥ ततस्तज्जननी सा तु स्रवद्रक्तमुखी क्रुधा। लगुडैस्ताडयामास तं तावद्यावन्ममार सः॥१६८॥ तं मृतं वीक्ष्य सर्वस्वं नष्टमालोक्य दुःखिता। प्रायत्यागोद्यता साभूज्जनन्य सह सुन्दरी॥१६९॥ जालं मकरकन्द्या यत्कृत्वा यस्य हृतं धनम्। आप्त कृत्यैव तस्यान्याः सर्वस्वं सुधिया हृतम्॥१७०॥ त्याग्यस्य कृतं जालमालं ज्ञातं तु नात्मनः। इत्युक्ताचात्र विज्ञातवृत्तान्तो विहसञ्जनः॥१७१॥ ततः सा सुन्दरी कुब्जा देहत्यागान्न्यवर्त्तत। स्वजनैर्जननीयुक्ता नष्टार्था पाटितानना॥१७२॥ स चार्जिताधिकधीः स्वर्णदीपात्ततोऽचिरात्। आगादीश्वरवर्मा तच्चित्रकूटं पितुर्गृहम्॥१७३॥ समुपागतमर्जितामितार्थं सुतमालोक्य पिता च रत्नवर्मा। अभिपूज्य स कुट्टनीं धनेन यमजिह्वां सुमहोत्सवं चकार॥१७४॥ स च विदितातुलमायो विरक्तचेता विलासिनीसङ्गे। आसीदीश्वरवर्मा ततोऽत्र कृतदारसङ्ग्रहः स्वगृहे॥१७५॥