कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 767, कुल 1079 में से
संदर्भ में पढ़ें७२० कथासरित्सागर एष नरेन्द्र वनिताहृदये न जातु धूतादृते वसति सत्यकथाल्पोऽपि। उत्सार्यसाध्यगमनासु सवत्सासु धूयाटबीष्विव रमेत न मूतिकायाम्॥१७६॥ इति मरुभूतयेदमाख्याय स ययावदारुजामकथाम्। नरवाहनदत्तस्तच्छ्रौषाय जहास गोमुखादियुतः ॥१७७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तियशोशम्भके प्रथमस्तरङ्गः ।
द्वितीयस्तरङ्गः राज्ञो विक्रमसिंहस्य कुमुदिकावेश्यायाश्च कथा एवं वेश्यास्वसद्भावे कथिते मरुभूतिना। आचख्यौ गोमुखो धीमांस्तद्वत्कुमुदिकाकथाम् ॥१॥ आसीद्विक्रमसिंहाख्यः प्रतिष्ठाने महीपतिः । व्यधायि विधिनान्वर्थो यः सिंह इव विक्रमे ॥२॥ यस्येश्वरस्य सुभगा नवीनप्रमदा प्रिया । अनुङ्गारतनुर्देवी शशिप्रभेति नामतः ॥३॥ तमेकदा स्वनगरे स्थितं सम्भूय गोत्रजाः । पञ्चापा गृहमागत्य राजानं पर्यवेष्टयन् ॥४॥ महाभटो वीरबाहुः सुबाहुः सुभटस्तथा। नृप प्रतापादित्यश्च सर्वेऽप्येते महाबलाः ॥५॥ तेषु सामादि युञ्जानं निराकृत्य स्वमन्त्रिणम्। राजा विक्रमसिंहोऽसौ युद्धायैषां विनिर्ययौ ॥६॥ प्रवृत्ते शस्त्रसम्पाते स नृपः सैन्ययोर्द्वयोः । शौर्यदर्पावृगजारूढः प्रविवेशाहवं स्वयम् ॥७॥ धनुद्वितीयं दृष्ट्वा तं वक्ष्यस्तं द्विषच्चमूम्। महाभटाद्याः पञ्चापि राजानोऽभ्यपतन्समाम् ॥८॥ तद्बले च शमं भूयस्यस्मिन्नेप्यभिधावति। बलं विक्रमसिंहस्य तदतुल्यममन्यत ॥९॥ ततोऽनन्तगुणास्त्वस्ते मन्त्री पार्श्वस्थितोऽब्रवीत्। भग्नमस्मद्बलं तावज्जयो नास्तीह साम्प्रतम् ॥१०॥