कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 771, कुल 1079 में से
संदर्भ में पढ़ें७२४ कथासरित्सागर वेश्यानां क्व सद्भावो नास्त्यत्र कुरुते पुनः। मते कुमुदिका भक्तिं न जानेऽस्य कारणम्॥२६॥ एतत्तस्य वचः श्रुत्वा स राजा निजगाद तम्। मम कुमुदिका प्राणानपि मञ्चति मत्कृते॥२७॥ न चेत्प्रत्ययसि तदहं प्रत्ययं दर्शयामि ते। इत्युक्त्वा तं स्वसचिवं राजा व्याजमिमं व्यधात्॥२८॥ शनैः कृशाङ्करयं तनुं मितपानोऽल्पभोजनः। चकार मृतभारमानं निश्चेष्टं मूर्च्छिताङ्गकम्॥२९॥ ततोऽधिरोप्य शिबिकां निन्ये परिजनैश्च सः। श्मशानं शोचतानन्तगुण ... ... सित्॥३०॥ सा च शोकार्ताकुमुदिका वार्यमाणापि बान्धवैः। आगत्य तेनैव समं समारोहुञ्चितोपरि॥३१॥ यावच्च दीप्यते वह्निस्तावदन्वागतां स ताम्। दृष्ट्वा कुमुदिकां राजा समुत्तस्थौ सजृम्भिकम्॥३२॥ प्रत्युज्जीवित एषोऽत्र दिष्ट्या विष्ट्येति वादिनः। सर्वे कुमुदिकायुक्तं निन्युस्तं स्वगृहं मुदा॥३३॥ अथोत्सवे कृते प्राप्तः स राजा प्रकृतिं रहः। कश्चिद्दृष्टोऽनुरागोऽस्या इति स स्माह मत्रिणम्॥३४॥ ततस्तं सोऽब्रवीन्मन्त्री न प्रत्यम्येवमप्यहम्। अस्यप्र कारणं नूनं तत्पेक्ष्यामात्र निश्चयम्॥३५॥ प्रकाशयामस्त्वात्मानमस्म यनेतदर्पितम्। श्वस मित्रबलं चाभ्यत्राप्य हन्मो रिपून् रणे॥३६॥ एव तस्मिन् वदत्येव मन्त्रिण्यभ्याययौ पुनः। स गुप्तप्रहितश्चारः स च पृष्टोऽब्रवीदिदम्॥३७॥ वैरिभिर्विषयो व्याप्तः शशिलेखा तु शोकजात्। देवी राज्ञो मृषा श्रुत्वा विपत्तिं वह्निमाविशत्॥३८॥ एतच्चारवचः श्रुत्वा शोकार्त्तनिरतस्तदा। हा देवि हा सतीत्यादि विललाप स भूपतिः॥३९॥ तत क्रमेण विश्रान्ततस्तथा कुमुदिकाञ्च सा। एत्य विक्रमसिंहं तमाश्वास्योवाच भूपतिम्॥४०॥