भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 775, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 775

७२८ कथासरित्सागर इत्याख्याय कथां तस्मिनिवरसे तत्र गोमुखे। नरवाहनदत्ताग्रे जगादाथ तपन्तकः ॥५५॥ देवि न प्रत्ययः स्त्रीषु चपलास्वनितास्वपि। चिरष्टीष्वपि¹ न ग्राह्यो वेशस्त्रीष्विव सर्वदा ॥५६॥ चन्द्रश्रीशीलहरयोः कथा इहैव यन्मया दृष्टमाश्चर्यं वच्मि तच्छृणु। बलवर्म्माभिधानो भूदस्यामेव वणिक्पुरि ॥५७॥ चन्द्रश्रीस्तस्य भार्याभूत्सा च वातायनाग्रतः ॥ भव्यं शीलहरं नाम ददर्शैकं वणिक्सुतम् ॥५८॥ सखिगृहं तमानीय समुल्लेखेन तत्क्षणम्। अरंस्त मदनाक्रान्ता तेन साकमलक्षिता ॥५९॥ प्रत्यहं च समं तेन यावत्सा रमत तथा। तावत्तत्सङ्गिनी ज्ञाता समग्रभृत्यबान्धवैः ॥६०॥ एकस्तु बलवर्म्मा तां नाज्ञासीदसतीं पतिः। प्रायेण भार्यादौःशील्यं स्नेहान्धो नेक्षते जनः ॥६१॥ अथ दाहज्वरस्तस्य समभूद्बलवर्म्मणः। तेन चान्त्यामवस्थां स क्रमात् सम्प्राप्तवान् वणिक् ॥६२॥ तदवस्थेऽपि तस्मिंश्च तद्भार्या सा दिने दिने। अगादुपपतेस्तस्य निकटं स्वसखीगृहे ॥६३॥ तत्रैव चास्यां तिष्ठन्त्यामन्येद्युस्तत्पतिर्मृतः। अगच्छत् सा च तद्बुद्ध्वा समापृच्छ्याशु कामुकम् ॥६४॥ आरोहच्च समं तेन पत्या सा तच्छुभा चिताम्। स्वजनैर्वार्यमाणापि शीलग्ने² कृतनिश्चया ॥६५॥ इत्थं दुरवधार्यैव स्त्रीचित्तस्य गतिः किल। अन्यासङ्गं च कुर्वन्ति म्रियन्ते च पतिं बिना ॥६६॥ एवं तपन्तकेनोक्तं श्रुत्वाऽरिशिखोऽभ्यधात्। मत्रापि देवदासस्य यद्वृत्तं तन्न किं श्रुतम् ॥६७॥ १ गृहपत्नीष्वपि। २ तस्या दुश्चरिताभिधैः।