भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 783, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 783

४३६ कथासरित्सागर

तया सह स राज्यं स्वं शासन्नृपतिरेकदा। निष्कासितोऽभूद्बलिविद्देशात् सम्भूय गोत्रजैः॥११०॥ देवीद्वितीयः प्रच्छन्नं सायुधोऽल्पपरिच्छदः। स प्रतस्थे ततो राजा मालवं श्वशुरास्पदम्॥१११॥ गच्छन् पथि च सोऽटव्यां सिंहमाधावितं पुरः। शरैः खड्गप्रहारेण द्विधा चक्रेऽवहेलया॥११२॥ वनद्विपं च गर्जन्तमायान्तं मण्डलाग्रभाक्। खड्गच्छिन्नकराङ्गुलिकं मुक्ताटटिमपातयत्॥११३॥ एकाकी तस्करचमूर्विदलयन्नवपङ्कजाः। गमाधारव्यविक्रान्तः करी कमलिनीमिव॥११४॥ एवं मार्गमतिव्रज्य दृष्टारब्धभूतविक्रमाम्। मालवं प्राप्य देवीं स्वां सोऽब्रवीत् सत्त्वसागरः॥११५॥ न मार्गवृत्तमेतन्मे वाच्यं पितृगृहे त्वया। लज्जया देवि का श्लाघा क्षत्रियस्य हि विक्रमे॥११६॥ इत्युक्त्वा च तया सार्धं प्राविशत्पितृगेहम् । सम्भ्रमात्तेन पृष्टश्च निजं वृत्तान्तमुक्तवान्॥११७॥ सम्भाव्य दत्तहस्त्यश्वस्तत्त्वेन श्वशुरेण सः। शतानीकाभिधस्यागाद्राज्ञोऽतियशिनोऽन्तिकम् ॥११८॥ देवीं तु कल्याणवतीं भार्यां तां पितृवेश्मनि। तत्रैव स्थापयामास विपक्षविजयोद्यतः॥११९॥ तस्मिन्प्रयाते मातुस्तु दिवसप्रकटात्र सा। देवी वातायनाधस्था कञ्चित्पुरुषमददात्॥१२०॥ स दृष्ट एव रूपेण तस्याश्चित्तमपाहरत्। स्मरणाङ्कुप्यमाणा च तत्क्षणं सा व्यचिन्तयत्॥१२१॥ जानेऽहं नार्यपुत्राद्यत्सुलक्ष्णाङ्गो न शोयपाम्। धावत्येव तथाप्यस्मिन् पुरुषे यत मे मनः॥१२२॥ तद्यथ भजाम्येनमिति सञ्चिन्त्य सा ततः। गय्र्यं रहस्यधारिण्यै स्वाभिप्रायं शशंस तम्॥१२३॥ शयनानाय्य भक्तं च बानायनरथेन सा। अन्त पुरं तं पुरुषं रञ्जलिखं न्यवेशयत्॥१२४॥