भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 799, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 799

७५२ कथासरित्सागर

कस्त्वं कथमियां भूमिमेकः प्राप्तोऽसि दुर्गमाम्। एतच्छ्रुत्वा स्ववृत्तान्तमुक्त्वा पप्रच्छ सोऽपि ताम् ॥८३॥ त्वं मे कथय कासि त्वं वनेऽस्मिन् का च ते स्थितिः। इति सं पृष्टवन्तं च दिव्यकन्या जगाद सा ॥८४॥ कौतुकं चेन्महाभाग तद्ब्रवीमि शृणु मत्कथाम्। इत्युक्त्वा सा स्रवद्बाष्पपूरा वक्तुं प्रचक्रमे ॥८५॥

मनोरथप्रभाकथा

अस्तीह काञ्चनामाख्यं हिमाद्रिकटके पुरम्। पद्मकूटाभिधानोऽस्ति तत्र विद्याधरेश्वरः ॥८६॥ तस्य हेमप्रभाख्यां राज्ञः पुत्राधिकप्रियाम्। मनोरथप्रभां नाम विद्धि मां तनयामिमाम् ॥८७॥ साहं विद्याप्रभावेण सखीभ्यः सममाश्रमान्। द्वीपानि कुरुवंशांश्च वनान्युपवनानि च ॥८८॥ क्रीडित्वा प्रत्यहं चैवमाहारसमये पितुः। आगच्छामि स्वभवनं वासरप्रहरैस्त्रिभिः ॥८९॥ एकदाहमिह प्राप्ता विहरन्ती सरस्तटे। मुनिपुत्रकमद्राक्षं सवयस्यमिह स्थितम् ॥९०॥ तद्रूपशोभयाकृष्टा हूतेवाहं समभ्यगाम्। सोऽपि साकृतया दृष्ट्यैवाकरोत् स्वागतं मम ॥९१॥ ततो ममोपविष्टायाः सखी ज्ञातोभयाशया। कस्त्वं ब्रूहि महाभागेत्यपृच्छत्तद्वयस्यकम् ॥९२॥ स चाब्रवीत्तद्वयस्यो नातिदूरमितः सखि। निवसत्याश्रमपदे मुनिर्दीधितिमानिति ॥९३॥ स ब्रह्मचारी सरसि स्नातुमत्र कदाचन। आगतो ददृशे देव्या सस्काशागतया धिया ॥९४॥ सा तं शरीरेणाप्राप्यं प्रशान्तं मनसैव यत्। सकामा चकमे तेन पुत्रं सम्प्राप मानसम् ॥९५॥ त्वद्दर्शनान्ममोत्पन्नः पुत्रोऽयं प्रतिगृह्यताम्। इति नीत्वैव तज्जातं सा दीधितिमते सुतम् ॥९६॥ बालं मुदये तस्य समर्प्य द्यौस्तिरोदधे। सोऽप्यनायासलब्धं तं पुत्रं दृष्ट्वोऽग्रहीन्मुनिः ॥९७॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 799, कुल 1079 में से · BharatKosha