कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 811, कुल 1079 में से
संदर्भ में पढ़ें७६४ कथासरित्सागर एवं ते सोमप्रभविद्याधरकन्यके पृथग्विभुना। स्वप्नादिष्टे भूपतेस्तस्य सदः सुमनसस्तदा ययतुः ॥१७३॥ सोमप्रभं तत्र च तं विलोक्य संस्मृत्य जातिं मकरन्दिका स्वाम्। दिव्यं प्रपद्यैव निजं वपुस्तज्जग्राह कण्ठं चिरशापमुक्ता ॥१७४॥ सोऽपि प्रसादाद् गिरिजापतेस्तां सम्प्राप्य विद्याधरराजपुत्रीम्। सोमप्रभः शङ्कुसिदिव्यभोगलक्ष्मीमिवाश्लिष्य कृती बभूव ॥१७५॥ स चापि दृष्ट्वैव मनोरथप्रभां स्मृतस्वजातिः सुमनोमहीपतिः। प्रविश्य पूर्वां नभसश्च्युतां तनुं मुनीन्द्रपुत्रश्च बभूव रश्मिमान् ॥१७६॥ तया च सङ्गम्य पुनः स्वकान्त्या चिरोत्सुकः स प्रययौ स्वमाश्रमम्। ययौ स सोमप्रभभूपतिश्च तां प्रियां समादाय निजां निजं पुरम् ॥१७७॥ शुकोऽपि मुक्त्वाैव स विहङ्गीं तनुं जगाम धाम स्वतपोभिरर्जितम्। इतीह दूरान्तरितोऽपि देहिनां भवत्यवश्यं विहितः समागमः ॥१७८॥ इति नरवाहनदत्तो निजसचिवाद् गोमुखात्कथां श्रुत्वा। अद्भुतविचित्ररुचिरां सप्रितियज्ञः सोत्सुकस्तुतोष तदा ॥१७९॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शक्तिमद्यशोलम्बके तृतीयस्तरङ्गः समाप्तः। चतुर्थस्तरङ्गः ततो विद्याधरीयुग्मकथामाख्याय गोमुखः। नरवाहनदत्तं तमुवाच सचिवाग्रणीः ॥१॥ क्वचिदेव सहन्तेऽत्र लोकद्वयहितैषिणः। सामान्या अपि कामादेरावेगं धृतबुद्धयः ॥२॥ राज्ञः कुलधरस्य सेवकस्य कथा तथा च पूर्वमासीद्यो बभूव कुलपुत्रकः। राज्ञः कुलधराख्यस्य सेवकः ख्यातपौरुषः ॥३॥ स ग्रामादागतो जातु प्रविष्टोऽशङ्कितो गृहे। भार्यां स्वेनैव मित्रेण ददर्श स्वरसहृताम् ॥४॥