भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 813, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 813

७६६ कथासरित्सागर दृष्ट्वा नियम्य स क्रोधं चिन्तयामास धैर्यतः । किं मित्रद्रोहिणैतेन पङ्गुना निहतेन मे ॥५॥ दुश्चारित्र्यानया वापि पापया निगृहीतया । किं करोम्यहमप्येनान्मात्मानं पापभागिनम् ॥६॥ इत्यालोच्य परित्यज्य तावुभावप्युवाच सः । हन्यामहं न युवयोः पश्येयं पुनरेव च ॥७॥ नागन्तव्यमितो भूयो मम लोचनगोचरम् । इत्युक्त्या तौ च मुक्तौ तौ ययतुः क्वापि दूरतः ॥८॥ स स्वस्यां परिणीतायामभूच्छूरवर्मा सुनिर्वृतः । एवं नूनं जितक्रोधो न दुःखस्यास्पदीभवेत् ॥९॥ कृतप्रज्ञश्च विपदा न जातु न बाध्यते । निगदाम्यपि हि प्रज्ञा श्रेयसे न परायणम् ॥१०॥ तथा च शृण्विमां सिंहवृषभादिगतां कथाम् । सञ्जीवकवृषभस्य पिङ्गलकसिंहस्य च कथा आसीत् कोऽपि वणिक्पुत्रो धनवान् नगरे क्वचित् ॥११॥ तस्यैकदा वणिज्यार्थं गच्छतो मथुरां पुरीम् । भारवोढा युगं भग्नं भरेण न्यपतद्भुवि ॥१२॥ गिरिप्रस्रवणोद्भूतपङ्के मग्नः स एव पथि । सञ्जीवाख्यो वृषभः पपाताद्भूवनिर्गतः ॥१३॥ दृष्ट्वाभिपालितमिदमश्मगिरिदारणायतनम् । निरागसं चिरात् त्यक्त्वा वणिक्पुत्रो जगाम सः ॥१४॥ स च सञ्जीवको दैवाद् गतान्वक्षा युगं शनैः । उत्थाय शान्तदम्भोजदुर्वलस्तद्भविभाण्डवान् ॥१५॥ चरंश्च यमुनातारे हरितानि तृणानि च । पीत्वा स्वच्छतरं वारि शनैर्हृष्टतनुर्बभूव ॥१६॥ उत्प्लवन् पीनसर्वाङ्गः माद्यन् द्युतिमयस्तथा । शृङ्गोल्लिखितपद्माक्षः स च सन्नादनन् वने ॥१७॥ तत्राथ चाभवत्तत्र महासिंहो वनान्तरम् । यियुः पिङ्गलको नाम रिपुमारणकोविदः ॥१८॥ दमनकः करटकश्च द्वौ शृगालावरचैतयोः । एषां मन्त्री स हि नाम तथा करटकस्तयोः ॥१९॥

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · पृष्ठ 813, कुल 1079 में से · BharatKosha