कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 817, कुल 1079 में से
संदर्भ में पढ़ें७७ कथासरित्सागर दमनककरटकयोः संवादः को हि नाम न कुर्यात् केवलोदरपूरणम्। एवं दमनकेनोक्ते साधु करटकोऽब्रवीत् ॥३४॥ स्वेच्छयातिप्रवृत्तो यो न धर्मः सेवकस्य सः। इति चोक्तः करटकेनेदं दमनकोऽभ्यधात् ॥३५॥ मैवमात्मानुरूपं हि फलं सर्वोऽपि वाञ्छति। श्वा तुष्यत्यस्थिमात्रेण केसरी धावति द्विपे ॥३६॥ एतच्छ्रुत्वा करटकोऽवादीदेवं कृते यदि। कुप्यति प्रत्युत स्वामी तद्विशेषफलं कुतः ॥३७॥ अतीव कर्कशा स्तब्धा हिंस्रजन्तुभिरावृता। दुरासदाश्च विषमा ईश्वराः पर्वता इव ॥३८॥ ततो दमनकोऽवादीत् सत्यमेतद्बुधस्तु यः। स्वभावानुप्रवृत्त्या स्वीकरोति शनैः प्रभुम् ॥३९॥ एवं कुरुत चेत्युक्तस्ततः करटकेन सः। ययौ दमनकस्तस्य सिंहस्य स्वामिनोऽन्तिकम् ॥४०॥ प्रणिपत्योपविष्टश्च सिंहं पिङ्गलकं स तम्। स्वामिनं कृतसत्कारं क्षणादेव व्यजिज्ञपत् ॥४१॥ अहं क्रमागतस्तावद् भृत्यो हितस्तव। हितः परोऽपि स्वीकार्यो हेयः स्वोऽप्यहितः पुनः ॥४२॥ क्रीत्वा यतोऽपि मूल्येन मार्जारः पोष्यते हितः। अहितो हन्यते यत्नाद् गृहजातोऽपि मूषकः ॥४३॥ श्रोतव्यं च हितैषिभ्यो भृत्यैभ्यो भूतिमिच्छता। अपृष्टैरपि वक्तव्यं तैश्च काले हितं प्रभो ॥४४॥ तद्विश्वसिषि चेद्देव न कुप्यसि न निह्नुषे। पृच्छामि तदहं किञ्चिन्न सोद्वेगं करोषि चेत् ॥४५॥ एवं दमनकेनोक्तः सिंहः पिङ्गलकोऽब्रवीत्। विश्वासाह्रोऽसि भक्तोऽसि तन्निःशङ्कं त्वयोच्यताम् ॥४६॥ इति पिङ्गलकेनोक्तेऽथोचेद्दमनकोऽथ सः। देव पानीयपानार्थं तृषितो गतवानसि ॥४७॥ तदपीतजलः किं त्वमागतो विमना इव। एतत्तद्वचनं श्रुत्वा स मृगेन्द्रो व्यचिन्तयत् ॥४८॥