कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 823, कुल 1079 में से
संदर्भ में पढ़ें[Page Header] ७७६ कथासरित्सागर
न स शक्नोति किं यस्य प्रज्ञा नापदि हीयते । तथा च मकरस्तैतां बकहन्तुः कथां शृणु ॥७८॥
बककर्कटयोः कथा
आसीत् कोऽपि बकः पूर्वं मत्स्याढ्ये सरसि क्वचित् । मत्स्यास्तत्र पलायन्त तस्य दृष्टिपथाद्रुमात् ॥७९॥ अप्राप्नुवंश्च मिथ्या तान्स मत्स्यान्ब्रवीद्वकः । इहागतो मत्स्यघाती पुरुषः कोऽपि जालबान् ॥८०॥ स जालेनाचिराद्युष्मान् गृहीत्वा विहनिष्यति । तत्कुरुध्वं मम वचो विश्वासो वोऽस्ति यन्मयि ॥८१॥ अस्त्येकान्ते सरः स्वच्छमज्ञातमिह धीवरैः । एते तत्र निवासाथ नीत्वैकैकं क्षिपामि वः ॥८२॥ तच्छ्रुत्वा समयेरुक्त मत्स्यैस्तैर्जडबुद्धिभिः । एव कुरुष्व विवस्ता वय त्वन्मयसिला इति ॥८३॥ ततो बकस्तानेकैक मत्स्यान् नीत्वा शिलातले। विन्यस्य भक्षयामास स बहून् विप्रलम्भकः ॥८४॥ दृष्ट्वा मीनानमन्तं तं 'मकरस्तत्सरो गतः । एको बक स पप्रच्छ नयसि क्व तिमीमिति ॥८५॥ ततस्त स तदेवाह बको मत्स्यानुवाच यत् । तेन भीतो भयोऽत्रोचत् स मामपि नयति त्वम् ॥८६॥ सोऽपि तन्मांसगर्धान्धबुद्धिरादाय त बकः । उत्पत्य प्रापयति तथावद्यम्यशिलातलम् ॥८७॥ तावत्तज्जग्धमीनास्थिशकला न्यत्र वीक्ष्य सः । त बुध्यते स्म मकरो बक विश्वास्य भक्षकम् ॥८८॥ तत शिलातल न्यस्तमात्रस्तस्य स तत्क्षणम् । बकस्य मकरो धीमांश्चकर्ताविव्हल शिरः ॥८९॥ गत्वा च शेषमत्स्यानां यथावत् स शशंस तत् । तेऽप्याप्यभिननन्दुस्तं तुष्टा प्राणप्रदायिनम् ॥९०॥
[Footnote] १ हितोपदेशे पञ्चतन्त्रादिषु मकरस्थाने कर्कटस्योल्लेखो दृश्यते। स एव च सङ्गत प्रतीपते। मकरस्य बकेन मैत्री तयोश्चाहवं च दुर्घटमेव प्रतीपते।