कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 837, कुल 1079 में से
संदर्भ में पढ़ेंएकदावग्रह१क्षीणजले सरसि तत्र तौ। हंसावन्यत् सरो गन्तुकामौ कूर्मो जगाद सः ॥१६९॥ युवां यत्रोद्यतौ गन्तुं नयतं तत्र मामपि। तच्छ्रुत्वा तावुभौ हंसौ कूर्मं तं मित्रमूचतुः ॥१७०॥ सरो दूराद्दवीयस्तद्यत्रावां गन्तुमुद्यतौ। तत्रागन्तुं तवेच्छा चेत्कार्यमस्मद्वचस्त्वया ॥१७१॥ अस्मद्धृतां गृहीत्वैव वक्त्रेर्यष्टिं दिवि व्रजन्। निरालापोज्झिततृषा भ्रष्टो व्यापत्स्यसेऽन्यथा ॥१७२॥ तथेति तेन दन्ताग्रयष्टिना सह तौ नभः। कूर्मेणोत्पपतुर्हंसौ प्रान्तयोरात्तयष्टिकौ ॥१७३॥ क्रमाच्च तत् सरोऽन्यन्नं प्राप्तौ तौ कूर्महारिणौ। ददृशुस्तदधोवर्तिनगराश्रयिणो जनाः ॥१७४॥ किमेतन्नीयते चित्रं हंसाभ्यामिति तर्जनैः। क्रियमाणं कलकलं स कूर्मश्चपलोऽशृणोत् ॥१७५॥ कुत कलकलोऽसाविति वक्त्राद्विहाय ताम्। यष्टिं स पृच्छन्हंसौ तौ भ्रष्टो लग्न जनैर्भुवि ॥१७६॥ एव बुद्धिच्युतो नश्येत्कूर्मो यष्टिच्युतो यथा। इत्य तयोस्तट्टिभा टिट्टिभः स जगाद ताम् ॥१७७॥
त्रयाणां मत्स्यानां कथा
सत्यमेतत्प्रिये किं तु त्वमप्येतां कथां शृणु। नद्यन्तस्थ ह्रदेऽभूवन्क्वापि मत्स्याः पुरा त्रयः ॥१७८॥ अनागतविधातश्च प्रत्युत्पन्नमतिस्तथा। तृतीयो यद्भविष्यश्च त्रयस्त सहचारिणः ॥१७९॥ ते दाशानां वचा जातु तन् मार्गेण गच्छताम्। अहोऽस्मिन् ह्रदे मत्स्याः सन्तीति किल शुश्रुवुः ॥१८०॥ तदाकर्ण्य वच दाशैर्नदीश्चात्र प्रविश्य नः। अनागतविधाताथ बुद्धिमानन्यतो ययौ ॥१८१॥
१ अनावृष्टिः। २ मत्स्यजीविनाम् धीवराणाम्।