कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 839, कुल 1079 में से
संदर्भ में पढ़ें७९२ कथासरित्सागर प्रत्युत्पन्नमतिस्त्वासीत्त तत्रैवाविकम्पित । अह प्रतिविधास्यामि भयं चवापतेदिति ॥१८२॥ य मे भविष्यतीत्यासीद्यद्भविष्यस्तु तत्र स । अथागत्याक्षिपञ्जालं तत्र ते धीवरा हृदे ॥१८३॥ जालोत्क्षिप्तस्तु तै सद्य प्रत्युत्पन्नमति सुधी । कृत्वा निस्पन्दमात्मानं तिष्ठति स्म मृतो यथा ॥१८४॥ स्वयं मृतोऽयमिति तेष्वस्यत्सु तिमिघातिषु । पतित्वा स नदी स्रोतस्यगच्छद्द्रुतमन्यतः ॥१८५॥ यद्भविष्यस्तु जालान्तर्वर्त्तनविवर्त्तनं । कुर्वन् गृहीत्वा निहतो मन्दबुद्धि स धीवरैः ॥१८६॥ तस्मात्प्रतिविधास्येऽहं न यास्याम्यम्बुधेर्भयात् । टिट्टिभदम्पतीकथा (पूर्वानुसृता) इत्युक्त्वा टिट्टिभो भार्यां तत्रैवासीत् स्वनीडक ॥१८७॥ सत्राणोपीद्वचस्तस्य साहङ्कार महोदधि । दिवसेष्वथ प्रसूता सा तद्भार्या तत्र टिट्टिभी ॥१८८॥ जहार स ततोऽण्डानि तस्य जलधिरूर्मिणा । पश्यामि टिट्टिभोऽयं मे किं कुर्यादिति कौतुकात् ॥१८९॥ प्राप्तं तदेतद्व्यसनं यन्मयोक्तमभूत्तव । इत्याह रुदती सा तं टिट्टिभी टिट्टिभं पतिम् ॥१९ ॥ ततः स टिट्टिभो धीरस्तां स्वभार्यामिमापत । पश्येह किं करोम्यस्य पापस्य जलधेरहम् ॥१९१॥ इत्युक्त्वा पक्षिणः सर्वान् सङ्घाटोद्योतपरावरान् । गत्वा तै सह शत्रन्द शरणं गरुडं प्रभुम् ॥१९२॥ अब्धिमाण्डापहारेण वयं नाथे सति त्वयि । अनाथवत्पराभूता इत्यूचुस्तं च ते खगाः ॥१९३॥ ततः क्रुद्धेन तार्क्ष्येण विज्ञप्तो हरिरम्बुधिम् । आग्नेयास्त्रेण संशोष्य टिट्टिभाण्डान्यदापयत् ॥१९४॥ तस्मादत्यक्तधैर्य्येण भाव्यमापदि धीमता । उपस्थितमिदानीं तु युद्धं विद्धस्वन ते ॥१९५॥