भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 845, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 845

४१८ कथासरित्सागर

इत्युवाचाथ तान् दुष्टबुद्धी राजाधिकारिणः । द्रक्ष्यामस्तर्हि तं प्रातरित्यूचुस्तेऽतिविस्मिताः ॥२२३॥ ततस्तं धर्मबुद्धिश्च दुष्टबुद्धिश्च तावुभौ । दत्तप्रतिभुवो मुक्तौ विमिश्रौ जग्मतुर्गृहम् ॥२२४॥ दुष्टबुद्धिस्तु गत्वाथ तत्त्वार्थं पितरं रहः । भव मे वृक्षगर्भान्तः स्थित्वा साक्षीत्ययाचत ॥२२५॥ बाढमित्युक्तवन्तं च नीत्वा महति कोटरे । निवेश्य च तरोस्तत्र रात्रौ स गृहमाययौ ॥२२६॥ प्रातश्च राजाधिकृतैः सह तौ भ्रातरौ तरुम् । गत्वा पप्रच्छतुः कस्तान् दीनारान् नीतवानिति ॥२२७॥ दीनारान् धर्मबुद्धिस्तान् नीतवानिति स स्फुटम् । तद्वृक्षकोटरान्तःस्थस्तत्साऽभाषत तत्पिता ॥२२८॥ तदसम्भाव्यमाकर्ण्य निश्चितं दुष्टबुद्धिना । अत्रान्तःस्थापितः कोऽपीत्युक्त्वाधिकृताश्च ते ॥२२९॥ तद्गर्भे दधुर्धूमं येनाध्मातः स निर्सरन् । निपत्याधोगतः क्ष्मायाँ दुष्टबुद्धिपिता मृतः ॥२३०॥ तद्दृष्ट्वा वस्तु बुद्ध्वा च राजाधिकृतकः स तैः । दापितो दुष्टबुद्धिस्तान् दीनारान् धर्मबुद्धये ॥२३१॥ निकृत्तहस्तजिह्वश्च तैः स निर्वासितस्ततः । दुष्टबुद्धिर्यथार्हस्यो धर्मबुद्धिश्च मानितः ॥२३२॥ एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहम् । तस्मान्न्याय्यया कुर्याद्बकेनाहेः कृतं यथा ॥२३३॥

बकसर्पयोः कथा

पूर्वं बकस्य कस्यापि जातं जातमभक्षयत् । भुजगोऽप्रत्यमागस्य स सन्तेपे ततो बकः ॥२३४॥ तदुपदेशात्तेनाथ बकेन नकुलालयात् । आहालाहिबिलं यावन्मत्स्यमांसं व्यकीर्यत ॥२३५॥ निर्गत्य नकुलस्तच्च खादंस्तदनुसारतः । दृष्ट्वा बिलं प्रविष्टस्तं सापत्यमवधीदहिम् ॥२३६॥