भारतकोश
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

महाकवि सोमदेव भट्ट द्वारा

स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)

DevanagariHindipublished1,079 पृष्ठ

पृष्ठ 847, कुल 1079 में से

संदर्भ में पढ़ें
पृष्ठ 847

७९८ कथासरित्सागर इत्युवाचाथ तान् दुष्टबुद्धी राजाधिकारिणः । पश्यामस्तर्हि श्वः प्रातरित्यूचुस्तेऽतिविस्मिताः ॥२२३॥ ततस्तैर्धर्मबुद्धिश्च दुष्टबुद्धिश्च तावुभौ । दत्तप्रतिभुवौ मुक्तौ विभिन्नौ जग्मतुर्गृहम् ॥२२४॥ दुष्टबुद्धिस्तु वस्तूक्त्वा दत्त्वार्थं पितरं रहः । भव मे वृक्षगर्भान्तः स्थित्वा साक्षीत्ययाचत ॥२२५॥ बाढमित्युक्तवन्तं च नीत्वा महति कोटरे । निवेश्य तं तरोस्तत्र रात्रौ स गृहमाययौ ॥२२६॥ प्रातश्च राजाधिकृतैः सह तौ भ्रातरौ तरुम् । गत्वा पप्रच्छतुः कस्मान् दीनारान् नीतवानिति ॥२२७॥ दीनारान् धर्मबुद्धिस्तान् नीतवानिति स स्फुटम् । तद्वृक्षकोटरान्तःस्थस्ततोऽभाषत तत्पिता ॥२२८॥ तदसम्भाव्यमाकर्ण्य निश्चित्य दुष्टबुद्धिना । अत्रान्तःस्थापितः कोऽपीत्युक्त्वाधिकृतैस्तरुः स च ॥२२९॥ तद्गर्भे दधुर्धूमं येनाध्मातः स निस्सरन् । निपत्याधोगतः क्ष्मायां दुष्टबुद्धिपिता मृतः ॥२३०॥ तद्दृष्ट्वा वस्तु बुद्ध्वा च राजाधिकृतकैः स तैः । दापितो दुष्टबुद्धिस्तान् दीनारान् धर्मबुद्धये ॥२३१॥ निकृत्तहस्तजिह्वश्च तैः स निर्वासितस्ततः । दुष्टबुद्धियथार्थोऽभूद् धर्मबुद्धिश्च मानितः ॥२३२॥ एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहम् । तस्मात्सन्याय्यया कुर्याद्वकबन्नाहेः कृतं यथा ॥२३३॥ बकसर्पयोः कथा पूर्वं बकस्य कस्यापि जातं जातमभक्षयत् । भुजगोऽपत्यमागत्य स सन्तप्ते ततो बकः ॥२३४॥ मन्त्रोपदेशात्तेनाथ बकेन नकुलालयात् । आरुह्याहिविलं यावन्मत्स्यमांसं व्यकीर्यत ॥२३५॥ निर्गत्य नकुलस्तच्च खादंस्तदनुसारतः । दृष्ट्वा बिलं प्रविष्टस्तं सापत्यमवधीदहिम् ॥२३६॥