कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
महाकवि सोमदेव भट्ट द्वारा
स्रोत: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (उद्गम)
पृष्ठ 849, कुल 1079 में से
संदर्भ में पढ़ें८० कथासरित्सागर लौहतुलावैश्यपुत्रयोः कथा एव भवत्युपायेन कार्यमन्यच्च मे शृणु। आसीत्कोऽपि तुलालक्ष पित्र्यार्थान्त्राप्तुमिप्सुतः ॥२३७॥ अयःपद्महस्रेण घटितां तां तुलां च सः। कस्यापि वणिजो हस्ते न्यस्य देशान्तरं ययौ ॥२३८॥ आगतश्च ततो यावत्तामृगयते तुलाम्। आखुभिर्भक्षिता सेति तावत्त सोऽब्रवीद्वणिक ॥२३९॥ सत्यं सुस्वादु तत्स्नेह सेन जग्ध सवाखुभिः। इति सोऽपि तमाह स्म वणिक्पुत्रो हसन्हृदि ॥२४०॥ प्रार्थयामास च ततो वणिजोऽस्मात्स भोजनम्। सोऽपि सन्तुष्य तत्तस्मै प्रदातुं प्रत्यपद्यत ॥२४१॥ ततः स सह कृत्वान्यं वणिजः पुत्रमर्भकम्। स्नातुं वणिक्सुत प्रायात्तामलकमात्रकम् ॥२४२॥ स्नात्वार्भकं से निक्षिप्य गुप्तं क्वापि सुहृद्गृहे। एक एवाययौ तस्य स धीमान्वणिजो गृहम् ॥२४३॥ अर्भकः क्व स इत्येव पृच्छन्तं वणिजं च तम्। श्येनेन सोऽर्भको नीत साभिप्रयत्युवाच सः ॥२४४॥ प्लावितो मे त्वया पुत्र इति क्रुद्धेन तेन च। नीत स वणिजा राजकुलेऽप्याह स्म तत्त्तथा ॥२४५॥ असम्भाव्यमिदं श्येनो नयेत् कथमिवारर्भकम्। इति सभ्यैश्च तत्रोक्ते वणिक्पुत्रो जगाद सः ॥२४६॥ मूषकैर्भक्ष्यते लोही देशे यत्र महातुला। तत्र द्विपमपि श्येनो नयेत्किं पुनरर्भकम् ॥२४७॥ तच्छ्रुत्वा कौतुकात् पृष्टवृत्तान्तेस्तस्य वादिना। सभ्यैस्तुला सा तेनापि स आनीयार्पितोऽर्भकः ॥२४८॥ इत्युपायेन घटयन्त्यभीष्टं बुद्धिशालिनः। त्वया तु साहसेनेव सन्देहे प्रापितं प्रभुः ॥२४९॥ एतत्करटकाच्छ्रुत्वाऽवादीद्दमनको ह्यनू। नैवं किमक्षयुद्धेऽस्ति सिंहस्य जयसंशयः ॥२५०॥ मत्तेभवक्षनाघातघनव्रणविभूषणः। क्व केसरी क्व चान्तश्च प्रतोदक्षतविग्रहः ॥२५१॥